________________
श्रीवल्लभोपाध्यायविरचितं
[द्वादशः विहरनन्यदा सूरिरायान् स्वर्णगिरं प्रति । मार्गान्तरालवर्तित्वादायाच्छ्रीपल्लिकापुरीम् ॥ जीर्णोद्धारे महत्पुण्यमिति मूरिरुपादिशत् । श्रावकान सुकृतं श्रोतृन सत्सदः सत्सदः सदः॥ इत्युपादिश्य सूरीन्द्रस्ततः प्रास्थत हर्पतः । एकत्रावस्थितियुक्ता यतीनां न कदापि यत् ॥१४॥ अथैकत्रोपविष्टौ तौ ध्यायतः स्मैकदा ह्यदः । डूंगरभाखरेत्याख्या सर्वाद्रीणां श्रुता भुवि ॥ अतो विशेषभाषायां प्रवर्तत तदा वरम् । डूंगरभाखरेत्याख्या जगदेकारूपिका ॥१६॥ कर्तव्यात्सर्वलोकानां सर्वलोकैः कृतादपि । धर्मात् साद्भुतधर्म चेत् करवाव तदा भवेत् ॥१७॥ श्रीमेरुगिरिनामानावावां ख्यातौ सहोदरौ । कारयाव मरौ मेरुं चैत्यं ज्ञापयितुं जनान् ॥१८॥ उदधारयतां तौ हि विचिन्त्येति स्वचेतसि । नलक्षाभिधं चैत्यं जीर्ण तन्वा न तेजसा ॥१९॥ नवलक्षाणि रूप्याणि लगन्त्यस्य विधापने । नवलक्षमतो नाम चैत्यास्यास्य भुवि श्रुतम् ॥२०॥ प्रतिमा पाश्वनाथस्य कारितेहितपूरिका । ताभ्यां कामलतेषा सत्फणा नवपल्लवा ॥२१॥ रचितं स्वर्णरत्नौधैर्यशःस्तम्भमिवोन्नतम् । तौ न्यवेशयतां दण्डं चैत्ये ध्वजविराजितम् ॥२२॥ सुवर्णकलशं चैत्यशृङ्गस्योपरि सुन्दरम् । प्रत्यष्टापयतां तौ तत् तदा मेरुरिव व्यभात् ॥२३॥ मेरुः सुमेरुरित्याख्यां बिभ्राणे ते व्यराजताम् | आकारे पञ्चमेरूणामबुध्येतां च सजनैः ॥२४॥ नवपल्लवनामायं पार्श्वनाथः प्रभाववान् । अभवद्भवदेश्वर्यप्रथितः पृथिवीतले ॥२५॥ निष्पन्ने पाश्वचैत्येऽपि पाचचत्येप्यथाद्भुते । प्रतिष्ठां न विना पूजा सत्प्रभावेपि तवये ॥२६॥ अतोऽथ कारयावावां प्रतिष्ठां श्रेष्ठनिष्टया । श्रीमूरीश्वरमकार्य श्रीवींझेवापुरस्थितम् ॥२७॥
१२-आयान्-या प्रापणे, आङ् पूर्वः शतृप्रत्ययान्तः आगच्छन् इत्यर्थः प्रथमः। द्वितीयस्तु आयादिति अनद्यतने लङ् इति लङः प्रथमपुरुषैकवचनप्रयोगः आगच्छदित्यर्थः ।
१३-सुकृतं श्रोतृन्- लो काव्ययनिष्ठाखलर्थतनामेति श्रोतन इत्यस्य तन्निति शीलार्थतन । प्रत्ययान्तत्वप्रयोगात् । सुकृतमिति हितीया | सहादः पदलविशरणगत्यवसादनेषु भ्वादौ, बलादिः परस्मैपदी। सत्सु साधुलोकेषु सोदन्तीति सत्सदः साधुलोकसेवकास्तान् । सतां पण्डितानां पूजितानां वा राजादीनां सदांसि सभाः तेषु सीदन्तीति सत्यदः पण्डितसभोपदेशकाः राजसभोपवेशका वा इत्यर्थः । सत्सद इत्यत्र सत्लदस्सद इत्यत्र च सत्सू द्विषदुहेति क्विप् सदः शब्दः स्त्रीलिबलिङ्गः।
१९-तन्वा शरीरेण, अन तनू शब्द ऊर्हतः । तन्यादेवेति वैकल्पिकस्य ऊङः प्राप्तेः । २२-तौ डंगरभाषरौ भ्रातरौ तत् नवलक्षं नाम चैत्यं ।
२४-ते श्रीपल्या मध्यास्थित यहि:स्थित दैत्योर्द्वयं व्यराजतां । चः पुनः सजनैः पञ्चमेरूणामाकारे अनुध्येताम् ।
२७-श्रेष्ठनिष्टया अनवाब्दः उत्कर्ष १ व्यवस्था २ निष्पत्ति ३ निर्वाह ४ व्रतानां पञ्चानामेषां पर्यायः । निष्ठोत्कर्षव्यवस्थयोः केशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते इति हैमः ।
Aho I Shrutgyanam