________________
ये व्योमादिसमस्तवस्तुनिवहे प्रोद्दाद(म)मुद्रानुगं
सवाक्यं कथयति ते वरतराः सूरीशमन्त्रोद्भुराः ॥११॥ जातस्तदीयवरपट्टधरो मुनीन्द्र
स्तिग्मांशुतिग्मरुचिरं वडितवामसौद्यः । कल्याणसागरगुरुर्वरसूरियों
विद्योतितप्रबलसूरिपदप्रभावः ॥ १२॥ सूरीश्वरः समभिजात इह प्रसिद्ध
स्तत्पट्टपूर्वगिरिभानुसमः पृथिव्याम् । श्रीपुण्यसागरगुरुर्बहुसिद्धमन्त्रः . शास्त्रार्थसार्थविदनुत्तरतत्त्वबोधः ॥ १३॥ . तेषां गुरूणामुपदेशमाप्य
प्रासादनिर्माणविधिः त्क(कृ)तोऽयम् । यदीयशोभा बहुधा निरीक्ष्य
स्वर्वासिनो विस्मयमाप्नुवन्ति ।। १४ ॥ श्रीमाघमासस्य शितौ सुपक्षे
भृगौ तृतीयादिवसे प्रतिष्ठाम् । संप्राप्तवानद्भुततत्त्वविद्भिः (१)
संभावितोत्तुंगयशःप्रकाशः ॥ १५ ॥ इतश्चश्रीमालवंशीयविशालगोत्रः
श्रद्धालतां श्रीजिनधर्मव(त)त्वे ।
"Aho Shrut Gyanam"
१४ ]