________________
सूराभिधानः किल संदधानो
निजं कुलं दीपयति स्म दीप्रः ॥ १६ ॥
तदीयवंशप्रथनाय जातः
क्षेमाभिधानः खलु पुत्ररत्नम् ।
यदीयधर्म (र्मा) समर्थतायाः
श्लाघां तनोति स्म गुरुः सुराणाम् ॥ १७ ॥
तद्वंशभालमुकुटोपमपुत्रभावं
प्राप्तः परं सुकृतसंततिसंग्रहाद्यः । यो राजसागर गुरोर्मुखतः प्रपेदे
धर्मप्रबोधमतुलं जयताभिधानः ॥ १८ ॥
तस्यान्वयेऽजनि सुतोऽभयचंद्रनामा पुत्रैश्वतुर्भिरभितः परिशोभमानः ।
जूठा- कपूर- जसराज - सुमेघजीति
सन्नामभिः प्रथितकीर्तिभिरतश्रीः ॥ १९ ॥
सभ्येन झूठा सुतजीवनेन
सन्यायमार्गाप्तपवित्रलक्ष्म्या |
युग्माधिकाविंशतियुग्मसंख्याः
कारापिताः स्वाकृतयो जिनानाम् ॥ २० ॥
सत्संगतिप्रीतिधरो समृद्धो (द्धः)
कर्पूरनामा वणिजां वरेण्यः ।
पुत्रस्तदीयो सियवंतसंज्ञः
संवा (रा) जमानः सुकृतप्रभावैः ॥ २१ ॥
"Aho Shrut Gyanam"
[ १५