________________
यैर्विहितः खलु वादः संसदि भूपस्य सम्यदीप्रायाम् | दर्शितनिजप्रतापा दर्शनषडङ्केऽरखलद्गतयः ॥ ६ ॥
तत्पशऋहरिदद्विविकाशभानुः
सूरीश्वरः सकललक्षणलक्षितांगः ।
श्रीराजसागरगुरुर्वरसूरिवंशः
सर्वागमार्थं कलन विधिशुद्धबुद्धिः ॥ ७ ॥
श्रीमत् सागरगच्छनायकतयैश्वर्यं यदीयं स्फुर-
त्युच्चैः सत्त्वसमाधिशीलतपसां येषां प्रभावाः क्षितौ ।
:
गर्जति प्रतिपक्षदर्पदलने सामर्थ्यभाजः स्फुटं
. वंद्यास्ते वरसूरिमन्त्रमुदिताः सद्रत्नदीपोपमाः ॥ ८ ॥
तेषां च पट्टगगने रविर्बिंबतुल्याः षट्तर्कतर्कदरिशीलनमुक्ततन्द्राः ।
श्रीवृद्धिसागर इति प्रथिताः प्रभावैः
सूरीश्वराः समभवन् बहुशिष्यवर्गाः ॥ ९ ॥
तत्पट्टधारकतया जगति प्रसिद्धाः
सिद्धा इद (व) प्रसरदुत्तममंत्र वाताः ।
सत्तर्क कौशल विहस्तितवादिवृंदाः
क्षान्त्यादिसद्गुणसमुल्लसितोरुदेहाः ॥१०॥
लक्ष्मीसागरसूरयः समभवस्तत्त्वप्रदीपोद्धत
ध्यानव्यापृतिमग्नमा नसतया नित्यं स्वभावस्पृशः ।
"Aho Shrut Gyanam"
[.१३