________________
७४
न्यायतात्पर्यदीपिका।
तद्यथा । चक्षुःस्पर्शनसंयोगात् घटादिव्यज्ञानमिति । चक्षुः स्यगने प्रतीते तयोः संयोगोऽप्राप्तिपूर्विका प्राप्तिस्ततो घटादिव्यज्ञानं भवति। आदिशब्दात्पटादिद्रव्यानेपः । दिवा चक्षुःसंयोगात्तमिस्रावाञ्चक्षुरगोचरत्वे स्पर्शनसंयोगाच्च घटादिद्रव्यज्ञानं भवतीत्यर्थः ।
ननु यदि संबन्धवशादेवार्थग्रहणं तर्हि तेन सर्वात्मनार्थस्य संबद्धत्वात्। सर्वात्मनाथग्रहणं प्रमज्ये तेति चेन। करणस्य नियतविषये समर्थत्वान्न हि परशुः संबद्धोऽपि द्रुमवत्तहतं व्योमापि च्छिनत्ति ॥ २६ ॥ एवं द्रव्यविषयं प्रत्यक्षमुक्ता गुणविषयं तदाह ।
*संयुक्त समवायात्ताभ्यां घटत्वादिसंख्यापरिमाणादिज्ञानमिति॥ ___ चतुःस्पर्शनसंयुक्ते घटाटिद्रव्ये समवायो यत् समवेतत्वं तस्मात् संबन्धात् । ताभ्यामिति चक्षुःस्पर्शनाभ्याम् । घटत्वादीनां सामान्यानां संख्यादीनाञ्च विशेषाणां ज्ञानं भवति । परिमाणमिति अणुमहदादि। प्रथमादिशब्दात् सत्त्वपृथिवीत्वग्रहः । हितीयादिशब्दात् पृथक्वसंयोगविभागपरत्वापरत्वद्रवत्वस्नेहवेगकम्मग्रहः। कोऽर्थः। संयुक्त ममवायसंबन्धाच्चक्षुषा संयुक्त घटादिद्रव्ये समवेतानां घटत्वादीनां संख्यादौनाञ्च चाक्षुषं झानं भवति । स्पर्शनेन संयुक्ते द्रव्ये तेषामेव स्पार्शनं ज्ञानं भवति । कम्मणां कथं
---..-...
---
* lu our text thic word wife in TaTit is emitted. į Ville pige 3. Line Ix.)
Aho! Shrutgyanam