________________
प्रत्यक्षपरिच्छेदः ।
७५ प्रत्यचत्वमिति चेत् । प्रमाणात्। हस्तचलनादिकम्मप्रत्यक्ष प्रगुणले सत्यम्मदादिवायेन्द्रियप्रत्यक्षाश्रयाश्रितत्वाद्रूपादिवदिति । एतेन ट्रव्यादीनां कमान्तानां हौन्द्रियग्राह्यत्व मुक्तम् ॥ २७ ॥
अथ संयुक्तसमवायसंबन्धादेवैकेन्द्रियग्राह्याणां रूपादीनां ग्रहणमाह ।
चक्षुषैव रूपज्ञानमिति ॥ चक्षुषैवेत्यवधारणं रूपज्ञान त्यान्यन्द्रियजन्यत्वप्रतिषेधार्थम् । स च बहिःकरणापेक्षयान्तःकरणस्य रूयादिषु सर्वेष्वपि व्याप्रिय. माणत्वात् । एवमग्रेऽपि योज्यम् । चक्षुःसंयुक्तं द्रव्यं तत्र समवायो रूपस्य समवेतत्वं यत्तस्मात् संयुक्त समवायसंबन्धाच्चक्षुषैव रूपज्ञानं भवति । न च रूपज्ञानमेव चक्षुषा रूपत्वसामान्यस्यापि तेन ग्रहणात् पञ्चखिन्द्रियेषु चक्षुधैव रूपज्ञानं कुत इति चेत् ।
तैजसत्वादिति ब्रूमः । तथापि न तनियम इति चेत् । न । यो यस्य द्रव्यस्य गुण: स तेनैव गृह्यत इति व्यवस्थायां रूपस्य तेजोगुणत्वात् । तेजसले च प्रमाणमेतत् चक्षुस्तेजमं रूपादीनां मध्ये नियमेन रूपस्यैवाभिव्यञ्जकत्वात् प्रदीपवदिति ॥ २८॥ गन्धज्ञानमाह।
वाण नैव गन्धज्ञानमिति ॥ घ्राणेन संयुक्त कर्पूरादिद्रव्यं तत्र यः समवायो गन्धसमवेतत्वं तस्मात्संयुक्तसमवायसंबन्धात् धाणे नैष गन्धज्ञानं भवति । न च
___ * This uphorisily is plate:ert in iku text aft.cr the inst aphorism dopted by the commentator. ( Vido page :%, Line !!
Aho! Shrutgyanam