________________
७६
न्यायतात्पर्य दीपिका।
गन्ध ज्ञानमेव प्राणन गन्यत्वस्यापि तेन ग्रहणात् । प्राणस्य गन्धं प्रत्येवाभिव्यञ्जकत्वं तु पार्थिवत्वात् । घ्राणं पार्थिवं रूपादौनां मध्ये गन्धस्यैवाभिव्यञ्जकत्वात् । कुखुमगन्धाभिव्यजककृतवत् ॥ २८ ॥ रसज्ञानमभिधत्ते।
रसनेनैव रसज्ञानमिति ॥ रसनसंयुक्तं क्षौरादिद्रव्यं तत्र यः ससवायो रमसमवेतलं तस्मात्संयुक्त समवायसंबन्धासनेनैव रसज्ञानं भवति। न च रमज्ञानमेव रमनेन रसत्वस्यापि तेन ग्रहणात् । रमनस्य रसग्रहणं त्वाम्यत्वात्। रसनमाप्यं रूपादीनां मध्ये रसस्यैवाभिव्यञ्जकत्वात् मुखशोषिणां लालादिद्रव्यवदिति ॥ ३० ॥ स्पर्शज्ञानमाचष्टे ।
स्पर्शनेनैव स्पर्शज्ञानमिति ॥ स्पर्शनेन संयुक्तं दुकूलादि तत्र यः ममवायः स्पर्शसमवेतत्वं तस्मात् संयुक्तसमवायसम्बन्धात् स्पर्शनेनैव स्पर्शज्ञानं भवति । नतु स्पर्शज्ञानमेव स्पर्शनेन स्पर्शत्वस्यापि तेन ग्रहणात् । स्पर्शनस्य स्पर्शव्यञ्जकत्वे वायवीयत्वं हेतुस्तसिद्धिश्चैवम् । स्पर्शनं वायवीयं रूपादीनां मध्ये स्पर्शस्यैवाभिव्यञ्जकत्वात् । अङ्गसङ्गिसलिलशैत्याभिव्यञ्जकममोरणवदिति ॥ ३१ ॥
संबन्धान्तरेण पुरो वक्ष्यमाणत्वात् शब्दग्रहणमुपेत्य सुखादिज्ञानमाह *
__ * 'The commientiat... did not aclept the aphoristu "नोलेगौव शब्दज्ञानम्" here. ( Sce isxc :;, Live .)
Aho! Shrutgyanam