________________
प्रत्यक्षपरिच्छेदः।
मनसैव सुखादिज्ञानमिति ॥ सुखमनुग्रहरूपं आदिशब्दादुपधातरूपदुःखमिच्छाहेषप्रय. नाश्च । मनः संयुक्त आत्मा तत्र सुखादीनां समवायस्तहुणलात्तत: संयुक्तसमवायसम्बन्धान्मनसैव सुखादीनां ज्ञानं भवति । न च सुखादिज्ञानमेव मनमा सुखादित्वस्यापि तेन संवदनात् । अत्रैवकारो बाह्येन्द्रियनिरासार्थः । मनःसद्भावे किं प्रमाणमिति चेत् । उच्यते युगपत्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति । ___ यहा आत्मनो विभुत्वात्सर्वेन्द्रियाणां सर्वार्थसम्बन्धे सत्यपि यहिना न परिच्छित्तिकदेति तदन्तःकरणम् । आत्मेन्द्रियार्थसन्निकर्षाः करणान्तरापेक्षाः। सत्वपि तद्भाव कार्यानुत्पादक त्वात् तन्वादिवत् । तथा सुखादिप्रतीतिरिन्द्रियजा अपरोक्षप्रतीतित्वाद्रूपादिप्रतीतिवत्। यच्च तदिन्द्रियं तन्मनश्चक्षुरादीनां तत्र व्यापाराभावात् ॥ ३२ ॥ सम्बन्धान्तरात् संख्यादिगतसामान्यज्ञानमाह ।
एतेषु संख्यादिष्वाश्रितानां सामान्यानां स्वाश्रयग्राहकैरिन्द्रियैः संयुक्त समवेतसमवायाद्रहणमिति ॥
अत्र संख्यादीति पदं घटत्वादिव्युदासार्थम् । प्राक्तनसम्बन्धेन तस्य गृहीतवात् । आदिशब्दात् सुखपर्यन्तं ग्राह्यते । सामान्यानामिति संख्यात्वपरिमाणत्वरूपत्वादीनाम् । स्वाश्रयग्राहकरिति । संख्यादिषु समवेतानां चक्षुषा स्पर्शनेन वा रूपादिसमवेतानां सामान्यानां चक्षुराये कैनेन्द्रियेण च ग्रहणात् स्वस्वविषयवैदिभिः इन्द्रिय रिति बहुत्वम्। सर्वेन्द्रिये मनःप्रतिपत्त्यर्थं
Aho! Shrutgyanam