________________
७८
न्यायतात्पर्य्यदीपिका।
संयुक्तासमवतेत्यादि। इन्द्रियसंयुक्तं यत् द्रव्यं तत्र समवेता ये संख्यादयः तत्र यः समवायः संख्यावादिसामान्यानां तस्मासंयुक्तसमवेतसमवायसम्बन्धात् । स्वाश्रयग्राहकैः स्वस्व विषयपरिच्छेत्तभिश्चक्षुरादिभिरिन्द्रियः संख्यादिषु स्थितानां सामान्यानां ग्रहणं भवतीत्यर्थः ॥ ३३ ॥ सम्बन्धान्तरात् शब्दज्ञानोपायमाह ।
योनसमवायाच्छ्रवणेनैव शब्दज्ञानमिति ॥ शब्दोपभोगप्रापकधर्माधर्मोपनिबद्धः श्रवणविवरसंज्ञितो नभोदेशः श्रोत्रम् । तत्र श्रोत्रे स्वहेतुभ्यः समुत्पन्नादाद्यशब्दाहोचीतरङ्गन्यायेनान्यान्यशब्दोत्पत्तौ सत्यां प्राप्तस्यान्तिमशब्दस्य यः समवायस्तस्माच्छब्दज्ञानं भवति । नतु शब्दज्ञानमेव श्रोत्रेण शब्दत्वस्यापि तेन ग्रहणात् । ननु कथं श्रोत्रे शब्दसमवाय इति चेन्न। श्रोत्रस्य नमस्त्वाच्छब्दस्य च तहणत्वात्। यो हि यगणं स तत्र पृथिव्यां गन्धवत्समर्वतीति ॥ ३४ ॥ शब्दसामान्यज्ञानमाह।
तदाश्रितमामान्य ज्ञानं समर्वतसमवायादिति ॥ तत्र शब्दे आश्रितानि यानि सामान्यानि शब्दत्वकत्वादीनि तेषां श्रोत्रेन्द्रिये समवेता ये शब्दास्तषु यः समवायः शब्दत्वादीनां तस्मात्समवेतसमवायागृहणं भवति ॥ ३५ ॥ अथ षष्ठं सम्बन्धमाह।
*
! our trust."
*" is omitom? (Vide 1. 3. Line 1.1
Aho! Shrutgyanam