SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षपरिच्छेदः । * एतत्पञ्च सम्बन्ध सम्बद्ध विशेषणविशेष्यभावात् दृश्याभावसम वायोर्ग्रहणमिति ॥ एतदिति पूर्वोक्ताः संयोगः, संयुक्तसमवायः, संयुक्त सममेतसमवायः, समवायः, समवेतसमवायचेति पञ्चसम्बन्धास्तैः सम्बद्धा अर्थाद येऽर्थास्तैः महाभावस्य समवायस्य च यो विशेषणविशेष्यभाव इतरसम्बन्धवैधर्म्येण सन्निधिविशेषोऽन्यथा तस्य प्रतिनियताश्रयवर्त्तित्वेन द्विष्टरूपत्वानुपपत्तिः तस्मादभावसमवाययोर्ज्ञानं भवति । दृश्येति पिशाचाद्यभावव्यवच्छेदार्थम् । समवाय इति सम्बन्धः । ततः पञ्चसम्बन्धसम्बद्ध विशेषणविशेष्यभावसम्बन्धादभावसमवाययोर्ग्रहणं भवतीत्यर्थः ॥ ३६ ॥ संयुक्तविशेषणभावेनाभावग्रहणमाह । तद्यथा घटशून्यं भूतलमिति ॥ अत्रेन्द्रियसंयुक्तं भूतलं विशेष्यं तस्य घटशून्यमिति विशेषणम् । घटाभावस्य तत्र स्थितत्वात् । तत इन्द्रियसंयुक्तभूतलविशेषणतया घटाभावो गृह्यत इति ॥ ३७ ॥ संयुक्तविशेष्यभावेनाभावग्रहणं दर्शयति । 02 - इह भूतले घटो नास्तीति ॥ अनेह भूतल इति विशेषणस्य घटाभावो विशेष्यः । नन्वयमाधाराधेयभावो विशेषणविशेष्यभावः सामानाधिकरण्याभावादिति चेत् । न । विशेषणविशेष्यभावस्यात्र सनिधिमात्र Aho ! Shrutgyanam ** The reading adopted by the commentator bere differs somewhat from our text (See page 3. Line 6-8.)
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy