________________
न्यायतात्पय्यदीपिका ।
पय्र्यवसितत्वमिति प्रागुक्तत्वात् । भूषणकारस्तु विशेषणविशेष्यभावस्यानियतत्वात् । उभयथाप्युदाहरणं युक्तमित्याह ॥ ३८ ॥
संयुक्त विशेषणविशेष्यतयाऽभावग्रहणमुक्का संयुक्तसमवेतविशेषणविशेष्यभावादिनाऽभावग्रहणं स्वयमभ्युह्यमित्याह ।
८०
एवं सर्वत्रोदाहरणीयमिति ॥
अस्यायमर्थः । इन्द्रियसंयुक्ते घटे समवेतमशक्तं कृष्णरूपं कृष्णरूपे शुक्लरूपं नास्तोति संयुक्तसमवेतविशेषणविशेष्यतया कृष्णरूपे शुक्लरूपाभावस्य ज्ञानम् । तथा इन्द्रियसंयुक्तघटसमतमशौक्कं कृष्णत्वसामान्यं कृष्णत्वं शोध नास्तीति संयुक्तसमवेतसमवेतविशेषणविशेष्यभावात् कृष्णत्वे शौक्लप्राभावस्य ज्ञानम् । अतीव्रो वेणुशब्दो वेणुशब्दे तीव्रत्वं नास्ति । श्रोत्रसमवेतशब्द विशेषणविशेष्यभावात् शब्दे तीव्रत्वाभावज्ञानम् । भेदशून्यं शब्दवं शब्दत्वे भेदो नास्तीति श्रोत्रसमवेतशब्दसम - वेतशब्द त्वविशेषणविशेष्यभावात् शब्दत्वे भेदाभावस्य ज्ञानमिति ॥ ३८ ॥
समवायग्रहणं दर्शयति ।
*समवायस्य तु क्वचिदेव यथा घटे रूपसमवाय इति ॥ तुशब्दोऽभावात्समवायं व्यवच्छिनत्ति | अभावो हि नावश्यमुभयज्ञानमपेक्षते । अधिष्ठानज्ञानं विनापि प्रतियोगिस्मृतिमात्रान्महान्धकारे प्रदीपाभावावभासवदभावप्रतिभासात् । सम
* The reading adopted by the commmentator here, differs souewhat from our text (See page 3. Line 10)
Aho ! Shrutgyanam