________________
प्रत्यक्षपरिच्छेदः । वायस्य तूभयज्ञानापेक्षणादभावाहिशेषः । अतएव क्वचिदित्युतम् । कोऽर्थः । यत्र सम्बन्धिद्वयमपि प्रत्यक्षं तत्रैव समवायप्रत्यक्षी यथा तन्तुपटयो न्यत्र। वाणुकादी हाणुकस्यानुपलम्भात् । अथवा क्वचिदेवेति स्थानत्रयेऽपि ग्रहणम् । यथा घटे रूपसमवायः रूपे रूपत्वसमवायः शब्दे शब्दत्वसमवायः इति । यहा क्वचिदिति। स्वदर्शन एव समवायस्य प्रत्यक्षत्वं नान्यदर्शनात्। कथं तस्य प्रत्यक्षत्वमिति चेत् । समवायप्रत्ययः प्रत्यक्षवत्तिः सम्बन्धप्रत्ययवात्संयोगप्रत्ययबदित्यनुमानात् ।
ननु सम्बन्धान्तरग्रहणऽनवस्थादोषादसम्बद्धः समवायः कथं ग्राह्यत इति चेन्न। अदृष्टादिसहितात् प्रत्यक्षयोग्योभयसम्बन्धीन्द्रियसन्त्रिकर्षादेव समवायग्रहणोपपत्तेः । सत्तायां सत्तान्तरवत्मम्बन्धान्तरं नेष्यते । स च समवायः समवायिनोरिन्द्रियसनिकृष्टयोविशेषणविशेष्यप्रतीतिहेतुत्वात्संयुक्तविशेषणभावादीनामन्यतमव्यपदेशयोग्यश्च स्यात् । तत: समवाय: समवायिनोविशेषणत्वेन विशेष्यत्वेन वा गृह्यत इति । यथा घटे इत्युदाहरणम् । अत्र घट इति विशेषणम् । रूपसमवाय इति विशेष्यम्। संयुक्तविशेषणविशेष्यतया समवायग्रहणं भवतीत्यर्थः । समवायस्य किं स्वरूपमिति चेत् । अयुतसिद्धानामाधा-धारभूतानां यः सम्बन्ध इह प्रत्ययहेतुः स समवायः ।
अस्य व्याख्या। युतसिद्धिरुभयोरपि सम्बन्धिनोः परस्परपरिहारण पृथगान्ययावयित्वम् । सा ययोर्नास्ति तावयुतसिद्धौ तयोः सम्बन्धः समवायः। यथा तन्तुपटयोः। नित्यानां त
Aho! Shrutgyanam