________________
८२
न्यायतात्पर्य्यदीपिका।
युतमिद्धिः पृथगव्यवस्थितिः पृथगजननयोग्यता सा ययोर्नास्ति तावयुतसिद्धौ तयोः सम्बन्धः समवायः । यथाकाशव्यत्वयोः । आत्मैकाश्रितयोधम्मसुखयोः कार्यकारणभावेऽतिव्याप्तिनिवृत्त्यर्थमाधा-धारभूतानामिति पदम् । न त्वाकाशपक्षिसम्बन्धव्यवच्छित्त्यै तस्यायुतपदेनैव निवर्तितत्वात् । आकाशतत्पदयोर्वाचवाचकभावेऽतिप्रसक्तिव्यपोहार्थमिहेति पदम्। संयोगेऽतिप्रसङ्गभङ्गायायुतसिद्देति पदमिति ॥ ४० ॥ अथ योगिप्रत्यक्ष लक्षयति ।
योगिप्रत्यक्षन्तु देशकालस्वभावविप्रतिष्टार्थग्राहकमिति । देशविप्रकष्टा मेर्वादयः। कालविप्रकृष्टास्त्वतीतानागताः । स्वभावविप्रकष्टाः परमाण्वादयस्तेषां समस्तानां व्यस्तानां वा ग्राहकं यत्प्रत्यक्षं तद्योगिप्रत्यक्षं भवति । अर्थग्राहकमित्युक्तेऽयोगिप्रत्यक्षेऽतिव्याप्तिस्तदपोहा) देशेत्यादिपदम्। तु शब्दोऽयोगिप्रत्यक्षाद्योगिप्रत्यक्षव्यतिरितार्थः । न च वाच्यं योगिप्रत्यक्षं नास्तीति प्रमाणसिद्धत्वात्। ज्ञानतारतम्यं कचित् सातिशयं तारतम्यत्वात् परिमाण तारतम्यवदिति। न च ताप्यमानास्वप्सु औषणातारतम्ये वह्निरूपतापत्त्यतिशयादर्शनाद् व्यभिचारी हेतुः हेग्नि पुटपाकप्रबन्धाहितविशुद्धिवत् स्थिराश्रयेऽतिशयोपपत्तेः तस्मादाश्रयस्थयादात्मनि जानातिशय उपपद्यते ॥ ११ ॥
तत् युक्तावस्थावियुक्तावस्थाभेदेन द्विधा भवतीति प्राक् युक्तावस्थायां योगिप्रत्यक्षमाह ।
Aho! Shrutgyanaml