________________
प्रत्यक्षपरिच्छेदः ।
८३
*तत्र युक्तावस्थायामात्मान्तःकरणसंयोगादेव धर्ममादिसहितादशेषार्थग्रहणमिति ॥
समाधिसहितावस्था युक्तावस्था। आत्मान्तःकरणसंयोगादेवेत्यवधारणं बाह्यार्थसंयोगनिषेधार्थम् । धर्मादीति प्रष्टयोगजनितं पुण्यं धम्मः । आदिशब्दादीश्वरादिग्रहः ।
अयमथः । योगजनितधर्मेश्वरादिसहकतादात्ममनःसन्निकर्षादिप्रकष्टार्थग्राहकं यत् प्रत्यक्षं तयुक्तावस्थावस्थितयोगिप्रत्यक्ष भवति। एतच्चोत्कृष्टयोग्यपेक्षया, योगिमात्रस्य तदसम्भवात् ॥ ४२ ॥ हितीयं भेदं वक्ति।
वियुक्तावस्थायां चतुष्टयत्रयहयस निकांग्रहणं यथासम्भावनं योजनीयमिति ॥
असमाध्यवस्था वियुक्तावस्था। चमुष्ट येत्यादि अामा मनसा संयुज्यते मन इन्द्रियेणेन्द्रियमर्थेनेति चतुष्टयम् । आत्ममन:श्रोत्रसंयोगस्वयम्। आत्ममनोयोगो दयम् । यथासम्भवेनेति । यत्र यावत्सम्भवति तत्र तदनतिक्रमेण | कोऽर्थः । घाणरसनचक्षुस्त्वचामन्यतमेनार्थग्रहणेन। चतुर्णामात्मान्तःकरणबाह्येन्द्रियगन्धाद्याश्रयाणां योगः। शब्दग्रहणे आत्ममनः श्रोत्राणां त्रयाणां योगः । सुखादीनां ग्रहले आत्ममनसोईयोर्योगः ॥ ४३ ॥
-- ---
---
--
-
-
---
* In the text, the reading "तत् विविधम् । युक्लावस्थायामयुनाव
tiğfa" preceiles the reading adopted here by the commentator { tide p. L. 13}.
Aho! Shrutgyanam