________________
न्यायतात्पय्यदीपिका ।
प्रत्यक्ष लैङ्गिक स्मृत्यार्षलक्षणा विद्येति वचनात्कश्विदार्षं पृथक् प्रमाणं प्रतिपेदे तदन्तर्भावायाह ।
अत्रैवार्णमन्तर्भूतं प्रकृष्टधम्प्रजत्वाविशेषादिति ॥
८४
ऋषीणां व्यासादीनामिदमाषं विशिष्टतपोलब्धिसमुत्यं ज्ञानमत्रैव योगिप्रत्यक्षेऽन्तर्भूतम् । अत्र हेतुः प्रकृष्टेत्यादि । इदं तत्त्वम् । योगिप्रत्यक्षे आर्षज्ञाने च विशिष्टोध एव हेतुः । स योगजनितस्तपोजनितो वास्तु न तेन भेदो द्वयोरपि धीहेतोरैक्यात् ॥ ४४ ॥
प्रत्यक्षसामान्यस्य पुनर्द्वैविध्यमाह ।
तच्च द्विविधं सविकल्पकं निर्विकल्पकञ्चेति ॥
सदिति योगिप्रत्यक्षं सविकल्पकं निर्विकल्पकं च सहिभेद
भवतीत्यर्थः ॥ ४५ ॥
aarat सविकल्पक प्रत्यक्षं लक्षयति ।
तत्र संज्ञादिसम्बन्धोल्लेखेन ज्ञानोत्पत्तिनिमित्तं सविकल्पकमिति ||
संज्ञा देवदत्तादिका । आदिशब्दात् द्रव्यगुणकर्मादयस्तेषां सम्बन्धस्योल्लेखः तद्विषयज्ञानोत्पादस्तेन सहकारिणा विशिष्टज्ञानोत्पत्तौ यत्कारणं तत्सविकल्पकं प्रत्यक्षं भवति । जात्या लेखो विकल्पः । उत्पत्तिनिमित्तमित्युक्ते मृदादेर्घटोत्पत्तिं प्रति निमित्तत्वात्तत्रातिव्याप्तिस्तदव्युदासार्थं ज्ञानेति पदम् । तथापि निर्विकल्पकेऽतिप्रसक्तिस्तद्यावृत्त्यर्थं संज्ञेत्यादिपदम् | अनेन च लक्षणेन " प्रत्यक्षं कल्पनापोढ़मभ्रान्तमिति”
Aho! Shrutgyanam