________________
प्रत्यक्षपरिच्छेदः ।
भाक्योक्तं प्रत्यक्षलक्षणं प्रतिक्षिप्तं ज्ञेयम् । संज्ञादिज्ञानस्य तन्मूलवात् । प्रत्यक्षस्य सविकल्पक वाभावे अनुमानानुत्थानप्रसङ्गाच्च । सविकल्पक स्थिरप्रत्यक्षोपात्तधूमाग्निव्याप्ति-स्मरणनान्तरोयकत्वात् तस्थेति ॥ ४६॥ प्रत्यक्षस्यातीन्द्रियत्वात् तत्फलमुदाहरति ।
यथा देवदत्तो दण्डोत्यादि ॥ अत्र देवदत्त इति ज्ञानं केवलसंज्ञासम्बन्धोल्लेखेन । दण्डीति विशेषणसम्बन्धोल्लेखेन । ननु किं प्राग विशेषणज्ञानं विशेष्यज्ञानमुभयज्ञानं वा युगपत् । उच्यते संज्ञादण्डादिविशेषणज्ञाने प्रागुत्यने सति तत्महकारिणेन्द्रियेण विशेषणविशेष्यविषयकज्ञानोत्पत्तिरिति। संज्ञायाश्च विशेषणत्वं व्यावर्तकत्वात् । आदिशब्दाद्रतो घट इत्यादि। इदं च संज्ञादिसम्बन्धोल्लेखिज्ञानं प्रत्यक्षम् । इन्द्रियव्यापारभावभावित्वात् । प्रथमाक्षसन्निकर्पोत्पन्ननिर्विकल्पकज्ञानवदिति ॥ ४७ ॥ निर्विकल्पकं लक्षयति ।
वस्तुस्वरूपमात्रावभासकं निर्विकल्पक मिति ॥ किमपीदमस्तौति वस्तुस्वरूपमात्रं येन जानेनावभास्यते सन्निर्विकल्पकं प्रत्यक्षं भवति । मात्रग्रहण संज्ञादिसम्बन्धनिवृत्त्यर्थ तेन सविकल्पक नातिव्याप्तिः ॥ ४८ ॥ तत्फलमुदाहरति ।
यथा प्रथमाक्षसनिपातजं ज्ञानमिति ॥ अक्षाणीन्द्रियाणि तेषां प्रथमे सन्निपाते सति ममयस्मरण
Aho! Shrutgyanam