________________
८६
न्यायतात्पर्यदीपिका।
विशेषग्रहणनिरपेक्षं यदज्ञानमुत्पद्यते तनिर्विकल्पकं प्रत्यक्षं भवति । नन्वनुभवक्षणे प्रागेव सविकल्प कोदयात्तन्नास्तीति चेन्न । अभ्यामदशायां सविकल्पकस्याशूत्पादित्वानिर्विकल्पकानुपलम्भेऽप्यनभ्यासदशायां तस्य स्फुटोपलम्भात् । तदुक्तम् ।
अस्ति ह्यालोचनाज्ञानं प्रथम निर्विकल्पकम् ।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ इति ॥ तस्मादेतदस्त्येवान्यथा सविकल्पकस्याप्यनुत्थानप्रसङ्गात् ॥ ८ ॥
ननु योगिज्ञानं निर्विकल्पकं सविकल्पकं वेत्याशङ्का तावस्थामाह।
युक्तावस्थायां योगिज्ञानञ्चेतीति ॥ समाधेरैकाग्रंा युक्तावस्था तस्यां योगिनो ज्ञानं प्रत्यक्ष निर्विकल्पकमेव भवति । विकल्पतः समाध्यैकाग्रगानुपपत्तेः । न च वाच्यं योगिप्रत्यक्षस्य निर्विकल्पकत्वे वस्तुस्वरूपमात्रावभासकलान किञ्जिशिष्ट्यमिति। युगपत्समस्तवस्तुविस्तारसाक्षाकारस्यैव वैशिष्ट्यात् । अत्र युक्तावस्थाग्रहणेन वियुक्तावस्थायां योगिप्रत्यक्ष निर्विकल्पकं सविकल्पकञ्चेति प्रतिपत्तव्यमिति ।
इति श्रीकृष्णर्षिगच्छमण्डनश्रीमन्महेन्द्रसूरिशिष्यश्रीजयसिंह सूरिविरचितायां ज्ञानतात्पर्य दीपिकाभिधानायां श्रीन्यायसारटोकायां प्रत्यक्षपरिच्छेदः समाप्तः ।
Aho! Shrutgyanam