________________
अनुमानपरिच्छेदः।
-
प्रथमपरिच्छेदे सभेदं प्रत्यक्षं लक्षयित्वा तत्पृष्ठभावित्वादिदानीमनुमानं लक्षयति ।
सम्यगविनाभावेन परोक्षानुभवसाधनममुमानमिति ।
असन्दिग्धधूमादिदर्शनात् साहचर्यानुस्मरणाच्चानुमौयते जायते सम्यगविनाभाविलिङ्गबलेन परोक्षोऽप्यर्थोऽनेनेत्यनुमानम् । परोक्षेति । परोक्षोऽक्षाणां परो योऽनुभवस्तस्य साधनं करणम् । सम्यगिति। सम्यग् भिन्नाधिकरणत्वप्रतीतिरहितः । स चासावविनाभावश्च तेन। अव्यभिचारि-नान्तरीयकत्वेन । अत्रानुभवसाधनपदे प्राग्वत् । परोक्षपदं प्रत्यक्षव्यवच्छेदार्थम् । तस्याप्यनुभवसाधनत्वात्।
कश्चित्त्वविनाभावेनैव प्रत्यक्षस्य व्यवच्छेदे सिद्धे परोक्षपदं मिलितयो माग्न्यो योग्रहणेनाग्यविनाभूतो धूम इति ज्ञानस्य मानसप्रत्यक्षत्वनिवृत्त्यर्थं तस्थाम्य विनाभावमूलवादित्याह । आगमेऽतिव्याप्तिनिवृत्त्यर्थं अविनाभावति पदम् । तस्य समयबलेनार्थप्रतिपत्तिहेतुत्वात् । यत्र काकस्तत्र मैत्रग्रहमित्याद्यविनाभावाभासभिदे सम्यगिति पदम् ।
भूषणकारस्तु भ्रान्तिरप्यर्थसम्बन्धत: प्रमति शाक्यमतब्युदासाय सम्यगिति पदं भ्रान्तः प्रमाणवायोगादित्याह । सकलमपि
Aho! Shrutgyanam