________________
८८
न्यायतात्पर्यदौपिका।
लक्षणं तु प्रत्यक्षकप्रमाणवादिन चार्वाकं प्रत्यनुमानस्य प्रामाण्यदृढ़नार्थम् । स हि शक्रमूडादौ धूमदर्शनेऽपि धूमध्वजाभावात् यत्र यत्र धूमस्तत्र तत्र वहिरिति व्याप्तेर्व्यभिचारित्वेन तादृग्व्याप्तिमूलत्वादनुमानमप्रमाणमिति ब्रूते । स चेत्थं रारटहिकल्पतः प्रतिक्षेतव्यः ।
तथाहि । शक्रमूर्द्धा किमग्निस्वभावोऽन्यथा वा। यद्यग्निस्वभावः तावश्यमग्निमानेव महानसादौ कोटिशस्तथा दृष्टत्वात् । अथान्यथा तदा तनाग्निं विना कथं धूम: स्यात् । तदुक्तम् ।
अग्निस्वभावः शक्रस्य मूर्दा चेदग्निरेष सः ।
अथानग्निखभावोऽसौ धूमस्तत्र कथं भवेदिति ॥ किं चासावनुमानं विना विप्रतिपबं प्रति प्रत्यक्षस्यापि प्रामाण्यं कथं दृढ़येत्। अविसंवादकत्वादिनेति चेत्तन। तेन तत्प्रामाण्यसाधने बलादप्यनुमानापत्तिः स्यात् । तस्मात्प्रत्यक्षस्य प्रामाण्य मभिलाषुकेण चार्वाकणानुमान प्रमाणत्वेनैष्टव्यमेवान्यथाऽप्रामाणिकत्वापत्तेः। कुतोऽनुमानस्य सिद्धिरिति चेत् । प्रमाणत्वाप्रमाणत्वसामान्यव्यवस्थानादन्यबुद्धे नात् । स्वर्गादेः प्रतिषेधाच्च प्रत्यक्षादन्यत्प्रमाणं स्वभावकार्यानुपलब्धिलिङ्गकमनुमानं सिद्ध तौति ब्रूमः । तदुक्तम् ।
प्रमाणेतरमामान्यस्थितेरन्यधियो गतेः ।
प्रमाणान्तरसद्भाव: प्रतिषेधाच्च कस्यचिद् ॥ इति ॥ तस्मात्सम्यगविनाभावेन परोक्षानुभवो येन साध्यते तदनुमानमित्यर्थः । अन्यत्राप्युक्तम् । यथा--
Aho! Shrutgyanam