________________
अनुमानपरिच्छेदः ।
८८ पञ्चलक्षणकालिङ्गाद् गृहीतात्रियमस्मतेः । परोक्षे लिङ्गिनि ज्ञानमनुमानं प्रचक्ष्यत इति ॥ सम्यगविनाभावेन परोक्षानुभवसाधनमनुमानमित्यनुमानं लक्षितम् ॥ १ ॥
न चाविनाभावज्ञानं विना तदवगन्तुं शक्यम् । तन्मूलत्वात्तस्येत्यविनाभावं लक्षयति ।
स्वभावतः साध्येन साधनस्य व्याप्तिरविनाभाव इति । विनाशब्द ऋतेवदभावार्थोऽव्ययम् । ततो विना भवनं विना. भावः न विनाभावोऽविनाभावो नान्तरीयकवमित्यर्थः। साध्य साधनयोर्वक्ष्यमाणलक्षणयोः स्वभावादनुपाधियोगाद्या व्याप्तिनियमः सोऽविनाभावो भवति। कोऽर्थः । यत्र यत्र धूमादिस्तत्र तत्र वद्यादिरभाव न धूमादिरिति साध्यस्य वादे. यद्यापकत्वं सोऽविनाभाव इति । अत्र स्वभावत इति पदं सोपाधीनां हेतूनां प्रतिक्षेपार्थ तैः साध्यसिद्धेरयोगात् । तदुक्तम् ।
अन्ये परप्रयुत्तानां व्याप्तीनामुपजीवकाः । तैर्दष्टैरपि नष्टव्या व्यापकाशावधारणति ॥ ननूपाधिः किंलक्षणः क्व च भवतीति चेत् उच्यते। साधमाव्यापक: साध्येन समव्याप्तिकच खलूपाधिरभिधीयते। उपाधिद्विधा निश्चित: शशितश्च । तत्र निश्चितोभयविशेषणवानिश्चितो यथा खलु हिंसाऽधर्मो हिंसात्वात्। अत्र निषिद्धत्वं निश्चित उपाधिः । साध्यस्य व्याप्तया साधनस्य चाव्याप्तयोपाधिविशेषणयोः साध्यव्यापकत्वसाधनाव्यापकवरूपयोनिश्चितत्वात् । उक्तयोरेव
Aho! Shrutgyanam