________________
न्यायतात्पर्य्यदीपिका।
विशेषणयोरन्यतरसदसद्भावशङ्कायां तु शङ्गित उपाधिर्यथा स श्यामस्तत्पुत्रत्वादत्र शाकाद्याहारपरिणाम उपाधिस्तत्त्वले शाकाद्याहारपरिणतेरभावानिश्चयात्माधनाव्यापकत्वं सन्दिग्धमिति। तस्मात्सोपाधिर्हेतुर्न श्रेयानिति स्वभावपदेनोच्यत इति ॥२॥ तद्भेदमाह।
स विविधोऽन्वयव्यतिरकभेदादिति ॥ अस्तित्वमुखेन प्रतीयमाना व्याप्तिरन्वयः । नास्तित्वमुखेन प्रतीयमाना व्याप्तियतिरेकः । तद्भेदात् स इत्यविनाभावो द्विधा भवति ॥ ३ ॥ अथान्वयाविनाभावं लक्षयति ।
*साध्यसामान्येन साधनसामान्यस्य व्याप्तिरन्वय इति ॥ अविवक्षितावान्तरविशेषं वह्निमात्रं यत्साध्यसामान्यं तेन कर्तृभूतेन अविवक्षितावान्तरविशेषं धूममात्रं यत्साधनसामान्य तस्य कर्मभूतस्य या व्याप्तिनियमः सोऽन्वयाविनाभावो भवति अत्र सामान्यपदं विशेषैः सह व्याप्तिप्रतिक्षेपार्थम् । विशेषेष्वनुः गमाभावेन व्याप्रयोगात् । न हि य: पासधूमवान् स पार्सवह्निमानिति व्याप्तिरस्ति । दृष्टान्तेऽन्यजातीयसद्भावेन व्यभि चारात्। न च वाच्यं विशेषेषु व्याप्ताभावात् सामान्यव्याप्त सिद्धसाध्यत्वानुषङ्ग इति। व्याप्ताग्निमात्रं संसाध्य नियतः तदनु तत्साधनात् । अन्वयव्याप्तौ च साध्यसामान्यं व्यापक
____ * 'The word "तत्र' is adled in the tixc before the reading adopted there (See p. 5. L. 3 }.
Aho! Shrutgyanam