________________
अनुमानपरिच्छेदः ।
१
साधनसामान्य व्याप्यम् । तत्र व्यापकं बहुविषयं व्याप्यं त्वल्पविषयम् । धूमाभावेऽप्यङ्गारावस्थायामग्निसद्भावात् । तदुक्तम् ।
व्यापकं तदतनिष्ठं व्याप्यं तनिष्ठमेव च।
व्याप्यङ्गमकमादिष्टं व्यापकं गम्यमिष्यते ॥ इति ॥ ४ ॥ व्यतिरेकाविनाभावमाह ।
साधनसामान्याभावेन साध्यसामान्याभावस्य व्याप्तिव्य तिरेक इति ॥
प्रागुक्तलक्षणमाधनसामान्याभावेन प्रागुक्त लक्षणसाध्यसामान्याभावस्य या व्याप्तिर्नियमः स व्यतिरेकाविनाभावो भवति । प्रवाभावपदमन्वयाविनाभावातिव्याप्तिव्यपोहार्थम् । व्यतिरेकाविनाभावे च साध्यसामान्याभावो व्याप्यः साधनसामान्याभावश्च व्यापकः ततोऽन्वयायतिरेकस्य वैपरीत्यं ज्ञेयम् । तदुक्तम् ।
नियम्यत्वनियन्त्रत्वे भावयोर्यादृशी मते। विपरीत प्रतीयेते तएव तदभावयोः ॥ साध्यं व्यापकमित्याहुः साधनं व्याप्यमुच्यते ।
प्रयोगेऽन्वयवत्येवं व्यतिरेके विपर्यायः ॥ इति ॥ ५ ॥ माधनं लक्षयति ।
साधनं लिङ्गमिति ॥ अत्र साधनं लक्ष्य लिङ्गमिति लक्षमाम् । लिङ्गयते चिहाते दूरतोऽपि लिङ्गी अनेनेति लिङ्गम् । यदनुमेयेनार्थेन देशविशेषे कालविशेषे वा सहचरितमनुमेयधम्मान्विते चान्यत्र सर्वस्मिन्नेकदेशे वा प्रसिद्धमनुमेय विपरीते च सर्वस्मिन् प्रमाणतोऽसदेव तद
Aho! Shrutgyanam