________________
न्यायतात्पर्य्यदीपिका ।
प्रसिद्धस्यार्थस्यानुमापकं लिङ्गम् । साध्यतेऽनेनेति साधनमुच्यते
तदुक्तम् ।
८२
अनुमेयेन सम्बद्धं प्रसिद्धं च तदन्विते ।
विपरीते च नास्त्येव तल्लिङ्गमनुमापकमिति ॥ ६ ॥
तदावाह |
afविधं दृष्टं सामान्यतो दृष्टश्वेति ||
अत्र द्विविधपदमुक्तप्रकारावधारणार्थम् । महानसादौ दृष्ट दहनादिसाजात्येन द्रष्टुं योग्ये साध्ये प्रवर्त्तमानं साधनं दृष्टमुच्यते । दृष्टार्थविषयत्वात् । व्याप्तिग्रहणक्षणे सामान्यवृत्त्या दृष्टस्यार्थस्य पश्चादनुमापकं यसाधनं तत्सामान्यतो दृष्टमुच्यते ।
यद्यपि सर्वं साधनं सामान्यतो दृष्टमेव तथापि दहनाद्यनुमितौ धूमाद्यनुमार्पिते वयादेः प्रत्यक्षीकर्त्तुं योग्यत्वेन तद्दिषयत्वात् तत्साधनं दृष्टमेव । इतरत्तु तद्विपय्यैस्ततया सामान्यतो दृष्टमिति । च शब्दः स्वार्थपरार्थभेदेनापि देविध्यसूचनार्थः ॥ ७ ॥ तत्र दृष्टसाधनमाचष्टे ।
तत्र प्रत्यक्ष योग्यार्थानुमापकं दृष्टमिति ॥
प्रत्यक्षग्रहणयोग्यः स चासावर्थच तस्यानुमापकं यत्साधनं तत् दृष्टं भवति । सामान्यतोदृष्टेऽतिव्याप्तिनिवृत्त्ये प्रत्यक्ष योग्येति पदम् । प्रत्यक्षग्रहणयोग्यतात्वव साध्यस्य दृष्टचरत्वेनानुमितेरन
द्रष्टुमौचित्येन वा सेया ॥ ८ ॥
उदाहरति ।
यथा धूमोऽग्नेरिति ॥
Aho ! Shrutgyanam