________________
अनुमानपरिच्छेदः । दृष्टसजातीयस्य द्रष्टुं योग्यस्य वाग्नेरनुमापकत्वेन प्रवर्त्तमानो धूमो दृष्टं साधनं भवतीत्यर्थः ॥ ८ ॥ सामान्यतो दृष्टं साधनमाह।
स्वभावविप्रकष्टार्थानुमापकं सामान्यतो दृष्टमिति ॥ स्वभावविप्रकष्टार्थाः परमाखादयस्तेषां सामान्यव्याप्तिर्विशेष पर्यवसानाद्यदनुमायकं लिङ्ग तसामान्यतो दृष्टं भवति । दृष्टसाधनेऽतिव्याप्तिव्याहत्त्ये स्वभावविप्रकष्टेति पदम् |॥ १० ॥ तविदर्शयति ।
यथा रूपादिज्ञानं चक्षुरादेरिति । चक्षुरादीन्द्रियमतिसूक्ष्मत्वात् स्वभावविप्रष्टम् । तच्च क्रिया करणपूर्विकेति सामान्यव्याप्तमा क्रियायाः करणपूर्वकल्वे सिद्धे रूपाद्युपलब्धिः करण साध्या क्रियावात् छिदिक्रियावदिति मामान्यतो दृष्टाद्रूपादिज्ञानसाधनादन्यकरणासम्भवे सति पारिशेष्याञ्चक्षुराद्यनुमीयत इति ॥ ११ ॥ पुनः साधनभेदमाह।
तत्पुनहि विधं स्वाध परार्थञ्चेति ॥ दृष्टसामान्यतोदृष्टभेदात् विविधमपि साधनं पुनईिभेदं भवति । कथमित्याह । स्वार्थमिति । स्वस्मै प्रात्मने इदं स्वार्थम् । कोऽभिप्रायः । महानसादौ भूयोदर्शनसहायेन प्रत्यक्षेण धूमधूमध्वजयोनिश्चितव्याप्तिकस्य पुंसो लोचनगोचरीभवद्यत्साधनं दृष्टान्ताव्यं विनापि परोक्षं लिङ्गिनमवगमयति । तत् स्वस्यैव प्रतिपत्तिभूतत्वात् स्वार्थमित्युच्यते । परार्थमिति । परस्मै व्युत्पा
Aho! Shrutgyanam