________________
१४
न्यायतात्पर्यदीपिका। द्यायेदं परार्थम् । कोऽर्थः । यत्साधनं व्युत्पादकेन स्वयं साध्यनान्तरीयकत्वेन निर्मीय पञ्चावयववाक्यप्रयोगेण प्रतिपाद्यमान मन्दिग्धादीनां परोक्षमथं लक्षयति तत्परार्थमिति व्यपदिश्यते । न चात्र वाक्यादेव साध्यावगतिरनुमानस्य शाब्दत्वप्रसङ्गात् । किन्तु पञ्चावयववाक्यप्रतिपादिताल्लिङ्गादेव।
ननु परार्थमनुमानमिति न सङ्गच्छते। यतो लिङ्गं वा लिङ्गसमुद्भूतं ज्ञानं वानुमानम् । न च तयोः वापि पारायं प्रसिद्धमस्ति । अथानुमानाभिधायकस्य शब्दस्य पारायादमुमानं परार्थत्वेन समर्थते तहिं प्रत्यक्षाभिधायकस्यापि शब्दस्य पारार्थ्या. प्रत्यक्षमपि तथोच्यतामविशेषात् । तदुक्तम् ।
ज्ञानाहा ज्ञानहेतोर्वा नान्यस्यास्त्यनुमानता । तयोश्च न परार्थत्वं प्रसिद्ध लोकवेदयोः ॥ वचनस्य परार्थत्वादनुमानपरार्थता ।
प्रत्यक्षस्यापि पाराय तत् हारं किं न कल्पाते ॥ प्रतीयते । न वयं शब्दस्य पारायात्तदभिधेयमनुमानमपि परार्थमिति समर्थयेमहि किन्तु पराधं यः पञ्चावयववाक्यप्रयोगस्तं लिङ्गप्रतीत्युत्पादकत्वेनानुमितिहेतुत्वादनुमानमित्याचक्ष्म है। न चैवं प्रत्यक्ष स्थापि पारार्थ्यम् । घट: वास्तौति पृष्टे प्रत्यक्षोऽयमित्यु स्तरस्य शाब्दकार्यत्वात् ।
एतेन वाक्यस्य साक्षादनुमितिमाधनाभावादौपचारिकममु. मापकत्वं तस्य समर्थहेतुप्रतिपादनेनैव कृतार्थत्वादिति ॥ १२ ॥
तत्र स्वार्थ समर्थयते ।
Aho! Shrutgyanam