________________
अनुमानपरिच्छेदः ।
८५
परोपदेशानपेक्षं स्वार्थमिति ॥ परोपदेशो वक्ष्यमाणलक्षणं पञ्चावयवं वाक्यम् । तदनपेक्षं यत्साधनं तत् स्वार्थ भवति । परार्थानुमानेऽतिव्याप्तिनिवृत्त्यर्थमन्तनसमासः। प्रतिपत्तुः पौन:पुन्यानुभूतचरलिङ्गलिङ्गिसाह. चयंस्मरणात् परोपदेशं विनापि निश्चिताविनामावस्य साधनस्य दर्शनात् यत्साध्यविज्ञानं तदनुमानं स्वार्थमित्यर्थः ॥ १३ ॥ पराध लक्षयति।
परोपदेशापेक्षं परार्थमिति ॥ परोपदेशं पञ्चावयवप्रयोगं परप्रतिपत्तौ यत्साधनमपेक्षते तत् पराथं भवति । यत्साधनं पञ्चावयवप्रयोगेन प्रतिपाद्यमानं सन्दिग्धविपर्यस्तादीनां साध्यविज्ञानं जनयति । तत्यरार्थममुमानं भवतीति तात्पर्य्यम् ॥ १४ ॥ अथ परोपदेशं लक्षयति ।
परोपदेशस्त पञ्चावयववाक्यमिति ॥ परो विपर्यस्तादिरुपदिश्यते प्रबोध्यते येन स परोपदेशः । पञ्चावयवा वक्ष्यमाणा: प्रतिज्ञादयः। सामान्य वाक्येऽतिप्रसक्तिनिषेधार्थमक्यवेति पदम् । शवयवमेव नावयवमेव वाक्यमिति तथागतभामतप्रतिक्षेपार्थ पञ्चेति पदम् । सर्वे वाक्यं सावधारणमिति न्यायादन्यथानियतार्थप्रदर्शकत्वेन निराकाइप्रवृत्तानियतार्थसिद्दे स्तदुच्चारणवैयर्थात् पञ्चावयवमेव वाक्यं परोपदेशं मवति ! पञ्चावयवं हि वाक्यं यावत्सु रूपेषु लिङ्गस्याविनाभावः माध्येन सह समाप्यते तावद्रूपं लिङ्ग प्रतिपादयत्परं प्रबोधयतीत्यर्थः ॥ १५ ॥
Aho! Shrutgyanam