________________
न्यायतात्पर्य्यदौयिका।
परोपदेशः पञ्चावयवं वाक्यमित्यक्तमतस्तानेव पञ्चावयवान् व्यनक्ति । __ प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा इति ॥
प्रतिज्ञादिपदानामथ: स्वस्वस्थाने वक्ष्यते । प्रतिज्ञा च हेतुश्चेत्यादि इन्दः । अवयवा इति। अवयवा इव अवयवाः प्रतिज्ञादीनामुपचारेणावयवत्वात्। मुख्यवृत्त्वा तु द्रव्यारम्भका एवावयवाः । अवयवा इत्युक्ते हस्तपादाद्यवयवेवतियाप्तिः स्यात्तनिवृत्त्यर्थ प्रतिज्ञादौनि पदानि। प्रतिज्ञादीनां चावयवत्वं पञ्चावयवमहावाक्यापेक्षया जेयमन्यथा तेषामपि पदकदम्बात्मकेन वाक्यत्वादिति ॥ १६ ॥
प्रतिज्ञादयोऽवयवा इत्युक्तं तत्र यथोद्देशं प्राक प्रतिज्ञा प्रज्ञापयति ।
तत्र प्रतिपिपादयिषया पक्षवचनं प्रतिसेति ॥ तोति निर्धारणार्थः । प्रतिज्ञायते परं प्रत्यङ्गीक्रियते इति प्रतिज्ञा। परं प्रति हेतुत: प्रतिपादयितुमिच्छा प्रतिपिपादयिषा सिसाधयिषा। तया हेतुभूतया वक्ष्यमाणस्वरूपः साध्यधर्मविशिष्टो धर्मी पक्षस्तस्य वचनं भणनं प्रतिज्ञा भवति । अत्र वचनं प्रतिज्ञत्युक्ते यत्किञ्चिद्दचनं प्रतिज्ञा स्यात्तदुपदासाथ पक्षेति पदम् । तथापि निगमनेऽतिव्याप्तिः स्यात्तस्थापि पक्षवचनत्वात् । तनित्य | प्रतिपिपादयिषयेति पदम् । धातूनामनेकार्थत्वादत प्रतिपिपादयिषा सिसाधयिषात्वेन व्याख्ये यान्यथा हेत्वादीनामपि प्रतिपिपादयिषया भणनात् प्रतिज्ञात्वापत्तिः स्यादिति ॥ १७ ॥
Aho! Shrutgyanam