________________
अनुमानपरिच्छेदः ।
のん
प्रतिज्ञामुदाहरति । यथानित्यः शब्द इति ॥
अत्र सूत्रकारेच्छा वैचित्रयात् विपय्वस्तनिर्देशेऽपि शब्दोऽनित्य इति प्रतिज्ञा विधेया । अन्यथा प्रागेवानुपन्यस्ते धर्मिणि कुड्याभावे चित्रमिवानित्यत्व निरालम्बं स्यात् ।
ननु केवल हेतुनेव साध्यसिद्धौ प्रतिज्ञाप्रज्ञापनं व्यर्थम् । ततः साक्षात्पारम्पर्येण वा सिद्धासम्भवात् । साक्षात्तावन किञ्चिद्दचनं साधनाङ्गम् । यस्मादिति
अर्थादर्थगतेः शक्तिः पक्षहेत्वभिधानयोः ।
नार्थतो न तयोर्नास्ति स्वतः साधनसंस्थितिः ॥
नापि पारम्पय्र्येण यतो हेतुवचो बहिरर्थाप्रामाण्याश्रयमशक्तमपि साध्यसिद्धौं शक्तस्य धूमाद्यर्थस्य सूचकं भवति । प्रतिज्ञोक्तिः पुन: साध्यमेवाभिधत्ते न पुनः सिद्धम् । साध्यञ्च न गमकं व्यभिचारादतो न तत्सूचकं पारम्पर्येणापि । तदुक्तम् । शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम् । साध्याभिधानात् पक्षोक्तिः पारम्पर्येण नाप्यलम् ॥ इति ॥ नैवम् । न खलु यत्र क्वचन साध्यसाधनाय हेतुप्रयोगस्तस्य प्रागपि सिडत्वात् । किं तर्हि कस्मिंश्चिप्रतिनियते धर्मिणि I तस्मिंश्चानुपन्यस्ते निराधारो हेतुः क प्रवर्त्तेत । तदप्रवृत्ती साध्यसिद्धिरेव | ततो धर्मिग्राहकं प्रमाणं प्रगुणयन्त्या प्रतिज्ञया हेतोराधारः सन्निधाप्यत इति साध्यसिद्धाङ्गत्वात्प्रतिज्ञा स्वीकार्येव । तस्याः प्रागपि सिद्धत्वाहार्थं तदुपादानमिति चेन्न ।
१३
Aho! Shrutgyanam
-