________________
८
न्यायतात्पय्य दौपिका।
तहाच्यस्थ धर्मिणः स्वरूपण सिद्धस्यापि प्रतिपाद्यधर्मविशिष्टत्वाप्रसिद्धस्य तेन रूपेण पठ्यमानत्वमम्भवात्। पक्षधर्मातापि हतोरित्यमेव । यदि केवलमेवानित्यत्वं माध्यते तदा शब्दधम्मस्य कृतकत्वस्थापक्षधम्मतैव स्यात् । शब्द एव त्वनित्ये माध्ये नायं दोषः । तदुताम् ।
स एव चोभयात्मायं गम्यो गमक एव च ।
अमिद्धेनैकदेशेन गम्य: मिद्देन बो वकः ॥ इति ॥ १८ ॥ द्वितीयावयवं व्यनक्ति ।
साधनवख्यापकं लिङ्गवचनं हेतुरिति ॥ हिनोति गमयति लिङ्गलक्षणमर्थमिति हेतुः । येन लिङ्गस्य साध्यसिद्धौ पञ्चम्यन्तं हतीयान्तं वा साधनत्वं साध्यनान्तरीयकत्वं ख्याप्यत तहचनं हेतुरित्युपर्यत । मुख्यतस्तु लिङ्गमेव हेतुस्तस्यैव पक्षधम्मत्वादिसद्भावात् । वचनं हेतुरित्युक्ते यत्किञ्चिद्दचनं हेतुः स्मात्तत्रिवृत्त्यै लिङ्गेति पदम् । उपनयेऽतिव्याप्तापनुत्त्यै साधनादिपदमिति ॥ १८ ॥ पूर्वोक्तायां प्रतिज्ञायां हेतुमुदाहरति ।
यथा तीव्रादिधर्मोपेतत्वादिति ।
तोवस्तीक्षाः । आदिशब्दान्मदुमधुरादिधम्मपरिग्रहः । तदु. पतत्वं तहत्त्वम् । अयसर्थः। शब्दोऽनित्यः। कस्मात्तीवादिधर्मोपेतत्वात् । तीवादया हि धम्माः शब्दस्यैव तान् हेतु ब्रुवता मूत्रकृता किमुक्तम् । पक्षस्यैव धर्मों हेतुः कार्यो नान्यस्तस्य पक्षधम्म त्वाभावात् ॥ २० ॥
Aho! Shrutgyanam