________________
अनुमानपरिच्छेदः ।
हेतुभेदमाह।
स विविधोऽन्वयव्यतिरेको केवलान्वयौ केवलव्यतिरेकी चेति ॥
स पूर्वोतो हेतुस्वि विधः विप्रकारी भवति। कथमित्याह । अन्वयव्यतिरेकीत्यादि। साध्यमामान्धेन माधनसामान्यस्य व्याप्ति रन्वयः । साधनसामान्याभावेन साध्यसामान्याभावस्य व्याप्तिव्यतिरेकस्तहान् हेतुरन्वयव्यतिरेकी। व्यतिरेकव्यामिरहितः केवलान्वयो। अन्वयव्याप्तिरहितः केवन्नव्यतिरेकी। चकारो मूल सूत्रोत पूर्ववदादिहेतुत्रविष्यबोधनार्थः । पूर्ववदादीनां अन्वयव्यतिरेक्यादीनाच नाम्नेव भेदो नत्वर्थेन न्यायसंग्रहे युक्त्यन्तरेण तथा व्याख्यानात् । तथाच तत्र त्या व्याख्या। अथवा पूर्ववदिति केवलान्वय्यनुमानम् । शेषवदिति केवलव्यतिरेकि । सामान्यतो दृष्टमिति अन्वयव्यतिरको ति । कथं पूर्वशब्दे नान्वयो व्यपदिश्यते । प्रागध्यवसीयमानत्वात् । न हि यावन्नाग्निभावे धूमभावोऽध्यवसीयत तावदग्न्यभावे धूमाभावो दृष्टोऽप्यध्यवसातुं शक्यते विध्यध्यवसायपूर्वकत्वात्तनिषधाध्यवमायस्य ।
पूर्वमेव विद्यत अन्वय एवास्ति यस्यानुमानस्य तत्पूर्ववत् । शेषो व्यतिरेकः स एवास्ति यस्य तच्छेषवत् । अन्वयव्यतिरेकयोः साधनाङ्गयोः सामान्येन यदनुमानं दृष्टं तत्सामान्यतो दृष्टमिति । तत्र कारणात् कायानुमानं पूर्ववत् । यथा दृष्टिविति तादृशाब्ददर्शनात् । कार्याकारणानुमानं शेषवत्। यथोपरि अष्टिजने तादृशनदीपूग्दर्शनात् ।
Aho! Shrutgyanam