________________
१००
न्यायतात्पर्यदीपिका। सामान्यतोदृष्टं यथा देशान्तरमाप्तित्वादादित्यगत्य नुमानमिति। अन्वयव्यतिरेक्यादिपदेष्वव्वयव्यतिरेकावस्येति बहुव्रीहिणेव चरितार्थत्वे नित्ययोगख्यापनाथं मत्वर्थीयोपादानम् । नित्ययोगेऽतिशायन इति वचनात् । अयमर्थः । लिङ्गस्यान्वयव्यतिरेकादिद्वारेण तवैविध्याभिधायक: शब्दोऽप्युपचारात् विधा हेतुभवति।
ननु शब्दस्य हेतुले स्वार्थप्रतिपादनाविनामावित्वेन कश्चि. हेत्वाभासो न स्यादिति चेत् । न। हेत्वाभासस्य लिङ्गदौष्ट्यादिमूलत्वात् शब्द स्य दोषाभाव एव ॥ २१ ॥ तनान्वयव्यतिरेकिणं हेतुं लक्षयति ।
तत्र पञ्चरूपोऽन्वयव्यतिरेकीति || त्रिषु हेतुषु मध्ये प्रपञ्चष्यमाण: पञ्चरूपो हेतुरन्वयव्यतिरेकी भवतीत्यर्थः ॥ २२ ॥ पचरूपाणि दर्शयति ।
रूपाणि तु पक्षधम्मत्वं सपक्षे सत्त्वं विषक्षाद्यावत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वञ्चेति ॥
तु शब्देन पराभिमतं रूप्यं व्यपाकरोति । पक्षधर्मवादीमा त्रयाणामर्थः स्वधिगमः। अबाधितविषयत्वमिति । अबाधित: प्रत्यक्षादिप्रमाणाविरुद्दो विषयः साध्यार्थो यस्य स तद्भावस्तत्त्वम् । असन्प्रतिपक्षत्वमिति। न सन् प्रतिपक्ष: साध्यत्वेन सह यस्य म नहावस्तत्त्वम् । एतेषां स्वरूपं स्वयमेव वक्ष्यति । पक्षधर्म
Aho! Shrutgyanam