SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १०१ अनुमानपरिच्छेदः । लादीनि ततः पञ्चरूपाणि यस्मिन् हेतो भवन्ति सोऽन्वयव्यतिरेको भवति ॥ २३ ॥ आद्यं रूपं निरूपयति । तत्र साध्यधर्मविशिष्टो धर्मों पक्षस्तत्र व्याप्यत्तित्वं हेतोः पक्षधर्मवमिति ॥ तत्रेति निर्धारणम्। साध्यश्वासो धर्मश्च साध्यधर्म इति कर्मधारयस्तत्पुरुषे हि धम्मिणि विप्रतिपत्त्यभावेन धम्मस्यैष साध्यत्वे धर्म धर्मान्तरानुषङ्गः स्यात् । तेन विशेष्यीभूतो यो धर्मी पर्वतादिः सः । पचते व्यक्तीक्रियतेऽर्थोऽनेनेति व्युत्पत्त्या पक्षो भवति । वैशिष्ट्यस्य हिनिष्ठतया धर्मिण्याक्षिप्तेऽपि यत् धर्मिपदं तत्माक्षादाख्यातएव धर्मों पक्षो यथा स्यान्त्र पुनः सौगतमतवत् पारम्पर्याप्त इति प्रतिपत्त्यर्थम् । पक्षव्यवस्था त्वेवम् । ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्माभिधीयते । व्याप्तिकाले भवेदम: साध्यसिद्धी पुनयमिति । तत्र पने व्याप्य समन्तात्तमधिष्ठाय हेतोर्या वृत्तिः सा पक्षधर्मस्वं भवति । हेतोः समस्तपक्षव्यापकत्वं पक्षधर्मवमित्यर्थः ॥ २४ ॥ द्वितीयं रूपमाह। साध्यसमानधर्मा धर्मी सपक्षस्तत्र सर्वस्मिन्नेकदेश वा हेतोधतिः सपक्षे सत्त्वमिति ॥ समानो धर्मों यस्यासी समानधर्मा । द्विपदाइमादन्निति सूत्रेण बहुप्रीहिसमासान्तादन् । ततः माध्यपदेन सह तत्पुरुषः । Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy