________________
प्रत्यक्षपरिच्छेदः ।
धर्मोऽभीष्टज्ञाने आदिशब्दादधर्मोऽनिष्टज्ञान सर्वनिमित्तत्वादीखरादिश्च तेषामनुग्रहः सन्त्रिकर्षस्तस्मात् । अत्रार्थग्राहकमित्युक्ते परमावादेरप्युपलब्धिः स्यात्तदसितुं स्थू लेति पदम् । स्थूलत्वञ्च परमाण्वपेक्षया। सूक्ष्मरूपादेरपि ग्टह्यमाणत्वात् । ___ तथाप्यनुमानेऽतिव्याप्तिस्तामपोहितुमिन्द्रियेत्यादि । तथापि कस्याप्यर्थस्य केनापि संबन्धन राह्यमाणत्वात् संबन्धविशेष इति । तथापि योगिप्रत्यक्षेऽपि प्रसक्ति स्तानिषेधुं प्रकाशैत्यादि । योगिप्रत्यक्षस्य केवलधम्मजनितमाहाय्यापेक्षितत्वात्। ततोऽयमर्थः प्रकाशाद्यनुग्रहमपोन्ट्रियाथै संबन्धवैशिध्येन स्थूलाद्यर्थपरिच्छेदक यत्प्रमाणं तदयोगिप्रत्यक्ष भवति ।
ननु प्राणरसनस्पर्शनानामस्त्वथसंबन्धस्तत्कृतानुग्रहोपघातदर्शनाचक्षुःश्रोत्रयोस्तु कथमग्न्यादिप्रसङ्गेन दहनादिप्रसङ्गात् । शब्द प्रत्यगमनाच्च । तथाच प्रयोगः । चक्षुःश्रोत्रे न प्राप्यकारिणौ सान्तरग्रहणात् । प्राप्यकारित्वे हि चक्षुरर्थयोः श्रोत्रशब्दयोश्चान्तरालग्रहणं न स्यात्परशुवृक्षवदिति युक्तिसद्भावादिति चेत् । उच्यते प्रमाणात् तथाहि चक्षुःश्रोत्र प्राप्यार्थं परिच्छिन्दात बाह्येन्द्रियत्वात् । खगिन्द्रियवदिति । प्राप्ताभावे सर्वार्थोपलम्भ: स्यान्न हि प्राप्तिं विनाऽन्या काचिद्योग्यतास्ति । यया योग्यदेशावस्थितस्यैव ग्रहणं नान्यस्येति । अत्र बहु वक्तव्य तत्तु नोचते । ग्रन्थविस्तरभयात् ॥ २५ ॥
इन्द्रियार्थसंबन्धविशेषेण स्थूलार्थ ग्राहकमयोभिप्रत्यक्षमित्युक्तं तत्र येन संबन्धेन यस्य ग्रहणन्तमाह ।
Aho! Shrutgyanam