________________
न्यायतात्पर्य्यदीपिका।
साधनवादनुमानेऽतिप्रसङ्गापनुत्त्ये अपरोक्षेति पदम् । इस्थमपि प्रत्यक्षाभासेऽतिप्रसत्यपास्तये सम्यगिति पदम् । ततः सम्यगपरोक्षानुभवो ययार्थार्थसाक्षात्कागे येन साध्यते तत्प्रत्यक्षप्रमाणमित्यर्थः ॥ २३ ॥ तद्भेदमाह ।
तविविधं योगिप्रत्यक्षमयोगिप्रत्यक्षञ्चेति ॥ विविधग्रहणं चातुर्विध्यनिषेधार्थम् । तेन मानसप्रत्यक्षं स्व. संवेदनप्रत्यक्षञ्च पृथग न युक्तम् । योग्ययोगिप्रत्य चयोरेवान्तभूतत्वात्। अष्टाङ्गयोगयुक्ता ये ते योगिनस्तविपरीता अयोगिनः चकारात् सविकल्पकनिर्विकल्पकाभ्यामपि विविधमित्यर्थः ॥२४॥
अत्यत्कृष्टत्वात् प्रागुद्दिष्टस्यापि योगिप्रत्यक्षस्यायोगिप्रत्यक्षपूर्वत्वात्तदेवादी लक्षयति ।
तत्रायोगिप्रत्यक्ष प्रकाशदेशकालधर्माद्यनुग्रहादिन्द्रियार्थसंबन्धविशेषेण स्थलार्थ ग्राहकमिति ॥
अत्र सूत्रकारच्छावचित्रमात् पूर्वनिपतितमप्ययोगिप्रत्यक्षपदं व्याख्यानादावन्ते वाच्यम् । लक्षणमभिधायैव लक्ष्यमभिधातुमुचितत्वात् । एवमन्यत्रापि ज्ञेयम् । तत्रशब्दो निर्झरणार्थः स्थनार्थानां यद्ग्राहक प्रमाणं तदयोगिप्रत्यक्ष भवतीत्यन्वयः ।
केनेत्याह । इन्द्रियेत्यादि । इन्द्रियाणि चक्षुरादौनि अर्थाः पृथिव्यादयो रूपादयश्च तेषां मिथः संबन्धविशेषः संयोगसंयुक्त समवायादिस्तेनासाधारणकारीन । कस्मात् प्रकाशेत्यादि । प्रकाशो दीपाद्यालोको देशः पुरोवत्यादि कालो वर्तमानादिः
Aho! Shrutgyanam