________________
प्रत्यक्षपरिच्छेदः।
७१
प्रमाणव्यक्तीनां प्रत्यक्षादिभिस्त्रिभिरेव संग्रहीतत्वात् । उपमानादयश्चात्रैव पुरोऽन्तर्भावयिष्यन्ते ।
प्रत्यक्षपरोक्षभेदेन द्विविधमेव प्रमाणमिति चेन्न । परोक्षणाई वेद्यौति प्रसिद्दयभावात् । परोक्षशब्देनानुमानागमाविवोच्यते । इति चेत्तह्यस्मटुक्त वैविध्ये को देषः । प्रत्यक्षानुमानोपमानशब्दा: प्रमाणानोति मूलविभागसूत्रेण वैविध्यविरोध इति चेत्र । विभागस्थात्राधिक संख्याव्यवच्छेदफलत्वात्। अन्यथा लक्षणचतुष्टयाभिधानादेव चतुष्वसिडेविभागोऽप्यनर्थकः स्यात् । ___ ननु प्रत्यक्षमनुमानमागम इति क्रमोपन्यासे को हेतुरिति चेदुयते। स्पष्टत्वात् सर्वप्रमाणश्रेष्ठत्वाच्च प्राक प्रत्यक्षस्य तदुपजीव्यप्रवर्त्तमानत्वात्ततोऽनुमानस्य तहड्दमूलस्वात् ततोऽप्यागमस्थोपन्यासः। तथा प्रत्यक्षमनुमानमागम इति व्यस्ताभिधानम् । प्रत्येकं स्वविषयज्ञप्ती स्वप्राधान्यार्थम् । इतिशब्द उक्त प्रकारावधारणार्थ उक्त प्रकारेणेव त्रिविधं नान्यथेत्यर्थः ॥ २२ ॥ अथ प्रत्यक्षं लक्षयति ।
तत्र सम्यगपरोक्षानुभवसाधनं प्रत्यक्षमिति ॥ अत्र तत्र शब्द स्त्रयाणां मध्ये प्रत्यक्षनिहारणार्थः । प्रत्यक्षमिति लक्ष्यं शेषन्तु लक्षणम् । प्रत्यक्षशब्दार्थः पूर्ववत् ! अपरोक्षघासावनुभवश्चेति कर्मधारयः । तस्य साधनं करणं घ्राणादौन्द्रियपञ्चकं मनश्चेति । अत्र प्रत्यक्षमिति लक्षणे कृते किमपेक्षा स्यात्तनिवृत्त्यै साधनमित्युक्तम् । तथापि स्वर्गादिसाधनत्वेन यागादावतिव्याप्तिव्यावृत्त्यै अनुभवेति पदम् । एवमप्यनुभव
Aho! Shrutgyanam