________________
न्यायतात्पर्य्यदीपिका।
प्रमाविषयः प्रमेयमिति ॥ प्रमायां योऽर्थः प्रतिभाति स प्रमेयं विषयोऽर्थ इति यावत् । एतेन सद्रूपमसद्रूपं वा न किञ्चिदनानुद्दिष्टं प्रमाविषयत्वेन सर्वस्य प्रमेयत्वादिति । इतौति । इतिशब्दः प्रमाण सामान्यलक्षणसमाप्तार्थः ॥ २१॥ प्रमाणं सामान्येन लक्षयित्वा विशेषलक्षणाय नदिभजते ।
*त्रिविध प्रमाणं प्रत्यक्षमनुमानमागम इति ॥ तिस्रो विधाः प्रकारा यस्येति त्रिविधं विप्रकारं प्रमाणं भवतीत्यर्थः । कथमित्याह प्रत्यक्षमित्यादि। अक्षमिन्द्रियं ततः, प्रतिगतमक्ष प्रत्यक्षमिति गतिवन्यस्तत्पुरुष इत्यनेन तत्पुरुषसमासो ऽव्ययीभावे तु प्रत्यक्षो घटः प्रत्यक्षा स्त्रीति व्यपदेशो न स्यात् । ___ ननु यथेन्द्रिय सामर्थात् ज्ञानं जायते तथाऽर्थसामर्थ्यादपि तत् कस्मादणेव व्यवदेशो नार्थेनेति चेन्न। अक्षस्थासाधारणत्वादर्थस्य च साधारणत्वात् । इन्द्रियं स्वविज्ञानस्यैव हेतुरर्थस्तु मनोज्ञानस्यापोति । व्यपदेशस्य चासाधारण्यमूलत्वात् । प्रतिगतमक्ष प्रत्यक्षमिति व्युत्पत्तिनिमित्तम् । प्रतिनिमित्तं तु साक्षाकारिवलक्षण: शब्दार्थएवान्यथा मानसप्रत्यक्षादेरसम्भवात् । अनु लिङ्गदर्शनस्य पश्चान्मीयतेऽननेत्यनुमानम् । आगम्यन्ते मयादयाँऽवबुध्यन्तेऽर्था अनेनेत्यागमः । त्रिविधग्रहणमवधारणार्थं सर्व
-- • --
* In our text the word aa is added before the realing uluptel here. [ Viden 1, 13.!
Aho! Shrutgyanam