SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षपरिच्छेदः । ६८ स्यानुभूतिरिति भावव्युत्पत्त्या प्रमायाश्च प्रामाण्यं स्यात्तच्चानिष्टं तेषां प्रमाणाझेदेन सर्वत्र प्रसिद्धत्वात् । तथा साधनपदेन प्रमाणफलयोर्भेदं ज्ञापयता तदपि प्रत्युक्तम् । यदुन बौद्धैः । ___ परिच्छेदरूपमेव ज्ञानमुत्पद्यते । न च परिच्छेदाते ज्ञानमन्यत् फलं प्रसूते । भेदे तु यथा प्रमाता सह संबध्यते तथा तदितरेणापि सम्बड्यतां निर्विशेषादित्यादि। भेटे सति हि प्रमाणफलव्यवस्थानात् । न खलु दीपएव प्रकाशी दात्रमेव वा छिदिक्रिया करणत्वेन क्रियात्वेन च तयोर्लोकेऽपि भेदेनोपलम्भात् । प्रयोगश्चात्र प्रमाणफले भिद्येते करणक्रियात्वात् । ये एवं ते एवं यथा दानच्छिदिक्रिये अभेदे तु प्रमाणाभावो वा फलाभावो वा स्यादिति ॥ १८ ॥ प्राक प्रमात्रादीनां प्रामाण्यनिवृत्त्यर्थं साधनग्रहणमित्युक्तम् । ततोऽविज्ञातस्वरूपाणां तेषां तत् दुरुच्छेदमिति प्रमातुः प्रमाधारत्वेन प्रमां लक्षयति । सम्यगनुभवः प्रमेति ॥ सम्यक् पदं प्राग्वत् संशयादिनिरासार्थमनुभवमात्रस्य तत्रापि सत्त्वात् । प्रमिति: प्रमाणफलमिति यावत् ॥ १८ ॥ प्रमातारमाह। प्रमाश्रय: प्रमातेति ॥ प्रागुक्तायाः प्रमायाः आश्रयः । समवायिकारणं प्रमाता भवतीत्यर्थः ॥ २० ॥ प्रमेयमाह । Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy