________________
८
__ न्यायतात्पर्य दौपिका। स्मरणज्ञानव्यवच्छेदार्थमनुभवग्रहणमिति ॥ स्मरणञ्च तत् ज्ञानञ्चेति विग्रहः। इह ज्ञानं पञ्चधा संशयज्ञानं विपर्ययज्ञानं स्मरणज्ञानं धारणाज्ञानमनुभवज्ञान ञ्चेति । तत: स्वविषयं प्रति सम्यक् साधनत्वेन स्मरणज्ञानस्यापि जायमानं प्रामाण्यमनुभवपदेन व्यावय॑ते । स्मरणस्याननुभवरूपत्वात्। कस्मात् स्मरणज्ञानमप्रमाणमिति चेत् । रज्जुसर्यादि. ज्ञानवत् भ्रान्तत्वादिति ब्रूमः । दत्तग्रहादिव्यवहारः कथमिति चेन्न मानसप्रत्यक्षेणेव तस्य सिद्धत्वात् ।
एतेनाक्षपादपचे स्मरणमप्रमाणमित्यावदितम्। प्रयोगशात्रस्मरणमप्रमाणं भ्रान्तज्ञानत्वात्। रज्जमर्पज्ञानवदिति। यत्र तु स्मरणाज्ञानेति पाठस्तत्राज्ञानपदेन स्वर्गसाधनस्य यागादेयंवच्छेदः ॥ १७ ॥ साधनपदव्यवच्छेदमाह।
प्रमाटप्रमेयव्यवच्छेदार्थ फलाद्भेदज्ञापनार्थं च साधनग्रहणमिति ॥
साध्यते अनेनेति करणाभिधायिना साधनपदेन प्रमाटप्रमेययोः कर्तृकम्मणोः फलस्य च प्रमारूपस्य प्रामाण्यं व्यवच्छिद्यते। करणस्य माधकतमत्वात् । प्रमात्रादीनां चासाधंकतमसात् ।
ननु कथं प्रमाबादीनां प्रामाण्यप्रसक्तियन्निवृत्त्यै साधनपदोपादानमिति चेत् । व्युत्पत्तिबलादित्याचक्ष्महे । तथाहि । अनुभवतीति कत्र्तव्युत्पत्त्या प्रमातुरनुभूयत इति कम्मव्युत्पत्त्या प्रमेय
Aho! Shrutgyanaml