________________
प्रत्यक्षपरिच्छदः ।
नात्तिमिरातिशयाहा हो चन्द्रावनुभूयेते। तदपसारणे पुनरेकएव। तत: प्राक्तनेन पाश्चात्येन च चन्ट्रैक्यग्राहिणा ज्ञानेन चन्द्रहित्वज्ञानस्य बाध्यमानत्वादिपर्यस्तत्वं स्यादिति ॥ १५ ॥ स्मय॑माणारोपमाह।
सुप्तस्य गजादिदर्शनं चेतीति । अत्र वादिनां विवेकख्यात्यख्यात्यसत्ख्यातिप्रसिद्धार्थख्यात्यामख्यातिसदसत्त्वाद्यनिर्वचनीयार्थख्यात्यलौकिकार्थख्यातिविपरीतख्यातिरूपा अष्टौ विप्रतिपत्तयः सन्ति। तासु सप्त व्यपासितुं खमते विपरीतार्थख्याति ख्यापयितुं इदमुदाहरणम् । भूषणकारस्तु ये स्वप्नज्ञान प्रमाणफलस्मृतिसंशयादिभ्योऽर्थान्तरमिच्छन्ति तन्मतप्रतिक्षेपार्थ सकलविपर्ययसंग्रहार्थञ्च हितीयमुदाहरणमित्युदाहार्षीत् । स्वप्नज्ञानस्य कथं विपर्ययत्वमिति चेत् । गजादीनां प्रागनुभूतानां स्वप्ने देशकालावस्थावैपरीत्येनानुभवनात् । अन्यत्रानुभूतमन्यत्र कम्यं स्मर्य्यत इति चेत् । अनुभवोऽनुयुज्यताम् । न खल्वनुभवेऽप्यप्रतीतिर्नाम । तदुक्त
जन्मन्येकत्र भिन्ने वा तथा कालान्तरेऽपि वा। तद्देशे वा ऽन्यदेश वा स्वप्रज्ञानस्य गोचरः ॥ अननुभूतप्रतिभासाङ्गीकारे च षष्ठभूतप्रतिभासानुषङ्गात् । देशादिवपरीत्यन्वनुभवसिद्धम् । तदेवं नैयायिकमते विपरीत ख्यातिव्यवस्थापिता। इतरख्यातिमिरासो भूषणादिशास्तेभ्यो जेयः ॥ १६ ॥
अथानुभवपदं व्यवच्छेत्तुमाह ।
Aho! Shrutgyanam