________________
44
न्यायतात्पय्यदीपिका ।
अध्यवसाय स्वरूपं निरूपयति ।
किंसंज्ञकोऽयं वृक्ष इत्यनध्यवसाय इति ॥
न विद्यतेऽध्यवसायो निश्चयो यस्मिन् । असावनध्यवसायः । कश्चित् कमपि वृक्षं पुरः प्रेच्य लक्षितवृक्षत्वोऽपि तत्संज्ञामनध्यवस्यन् विमृशति कोऽस्य वृक्षस्य संज्ञेति । अयं भावः । वृक्षसंज्ञाविषयो हि योऽर्थः सोऽपरसंज्ञाविषयोऽपि दृष्टो यथावादिरित्येवं सामान्येन विशेषसंज्ञामनुमाय तद्भेदमाम्रादिवदनुसारन् सन्दिग्धे किंसंज्ञोऽयं वृक्ष इति ॥ १३ ॥
पूर्व सम्यग्ग्रहणं संशयविपर्य्ययापोहार्थमित्युक्तम् । तत्र संशयं व्यवच्छिद्यविपय्यैयं व्यवच्छेत्तुं लत्तयति ।
मियाध्यवसाय विपर्यय इति ॥
विपरियन्तीन्द्रियाण्यस्मिन्निति विपर्य्ययः ।
मिथ्येत्यादि । मिथ्या
अतस्मिंस्तदितिरूपोऽध्यवसायो
निश्चयो मिध्याध्यवसायः । विपर्यय इति लक्षणे कृते किमपेक्षास्यात्तनिवृत्त्यर्थ मध्यवसाय इति । श्रध्यवसायः सम्यक् । ज्ञानेऽप्यस्तीति प्रासार्थं मिथ्येति । मिथ्याविपर्यय इति कृते तस्व तत्त्वं मिथ्यात्वं तच्च संशयेऽप्यस्तीति तन्निरासार्थमध्यवसाय इति । विपरीतज्ञानं विपय्य इत्यर्थः ॥ १४ ॥
विपर्य्ययो हिषानुभूयमानारोपः स्मर्यमाणारोपश्च । तत्वा
दावनुभूयमानारोपमुदाहरति ।
तद्यथा । हौ चन्द्राविति ॥
अत्र पूर्वक्षणे एकत्वेनानुभूय तन्या कनीनिकानिष्पीड़
Aho ! Shrutgyanam