________________
प्रत्यक्षपरिच्छेदः ।
अत्र संशयादर्थान्तरभावः पार्थक्यं न भवतीत्यन्वयः ।
कयोरित्याह। जहानध्यवसाययोरिति । जहानध्यवसायौ वक्ष्यमाणस्वरूपो तयोः । कस्मादित्याह। अनवधारणेत्यादि । अनव. धारणत्वं नामानिश्चितज्ञानत्वं तेनाविशेषस्तौल्यं तस्मात् । अयमर्थः । अहानध्यवसायावनवधारणरूपैकलक्षणाक्रान्तत्वात् संशयान्न भिद्येयातामैक्यस्यैकलक्षणवान खलु वैधय॑मात्रात्यार्थक्यं युक्त मृहलक्षण्यात् पाषाणस्थापि पृथ्वीतोऽर्थान्तरभावापत्तेः। तथाच प्रयोगः जहानध्यवसायी संशयान पृथग् अनवधारणरूपक लक्षणा. कान्तत्वात् । न यावेवं न तावेवं यथा विपर्यय इति ॥ ११ ॥ तयोः स्वरूपमाह।
*बाह्यालीप्रदेशे पुरुषणानेन भवितव्यमित्यूहः इति ॥ यत्र वाहा बाह्यन्ते तत् क्षेत्र बाह्यालीत्युच्यते । तत्र तु प्रायेण स्थावाटेरसम्भवात् कमप्यूई दविष्ठं दृष्ट्वा द्रष्टे त्यूहते मन्येऽहमवानेन केनापि अड्डेदमेन पुरुषण भवितव्यम् । अस्यैवं रूपत्वात् मंशयत्वमेव ।
ननु मूलसूत्रे जहस्य पृथगुक्ती किं प्रयोजनमिति चेत् । प्रमाणानुग्राहकत्वमिति ब्रूमः। तर्कविविक्ते विषये प्रवर्तमानानि प्रमाणानि तर्केरणानुगृह्यन्त इति पूर्जाचार्यवचनात् । भूषणकारस्तु बादादिप्रहत्तिविशेषणार्थं तकः पृथगुपदिष्ट इत्याचष्टेति ॥ १२ ॥
37" before the reading adopted here,
* In our text is added | Lite pp. :). L. 6.1
Aho! Shrutgyanaml