________________
६४
न्यायतात्पर्य्यदीपिका।
तस्या इस्थं संशयः। श्मशाने पिशाचोऽस्तीति कश्चित् प्रसिद्धिमाकलय्य तत्र गत्वा तमदृष्ट्वा सन्दिग्धे ।
ननु घटादिकं कायसनोपलभ्यते । नियादिकं क्वापि सदपिच नोपलभ्यते। तदव पिशाचो यत्रोपलभ्यते तत् किं विद्यमानोऽविद्यमानो वेति। नचोपलब्धिमात्रमनुपलब्धिमात्रं वा संशयहेतुर्यनातिप्रसङ्गः । किंतपलब्धानुपलश्याव्यवस्थासहितं विशेषायेक्षञ्च । अतएव मूलसूत्रे तयोरेवं लक्षणं कृतम्। उपलब्धुपपत्तेरुपलब्धानुपलब्धव्यवस्थातोऽविशेषापेक्षो विमर्शः संशयोऽनुपलब्धपपत्तेरुपलब्धानुपलब्धाव्यवस्थातोऽविशेषापेक्षो विमर्शः संशय इति ।
ननूपलब्धित्वमनुपलब्धित्वच्च सामान्यं ततः समानधर्मानानयोभद इति चेन्न । समानधर्मस्य ज्ञेयस्थत्वादनयोश्च ज्ञाटस्थत्वान्महान् भेदः ।
भूषणकारस्तु ये उपलब्धिमात्रेण शब्द स्थायित्वमनुपलब्धिमात्रेण स्वर्गवरादीनामसत्त्वञ्च्छन्ति । तन्मतप्रतिक्षेपार्थमुपलब्धानुपलब्धयोः पृथक् संशयहेतुखमित्यूचिवान् । संशयस्य त्वतत्त्वरूपस्यापि यत् षोड़शपदाऱ्या तत्त्वतया भणनं तद्दिचाराङ्गलेन संशय्य तत्त्वनियाथं प्रवर्तनात् ॥ १० ॥
ननहानध्यवसायावप्यप्रमाणस्वरूपत्वादस्मालक्षणात् व्यवच्छेत्तव्यौ तौ च कथं व्यवच्छेत्स्यते। तनिषिद्ध पदानुपादानादित्याशायाह ।
अनवधारणत्वाविशेषादूहानध्यवसाययोन संशयादर्थान्तरभाव इति ॥
Aho! Shrutgyanam