________________
प्रत्यक्षपरिच्छेदः ।
-
-
एकादशं मन इति । एवं सांख्येनेन्द्रियाणामाहङ्गारिकत्वे समर्थित सभ्याः सन्दिहोरन् । स्वस्खागमसमर्थाया मिथो विरुद्धायाः प्रतिपत्तेरिन्द्रियाणि किं भौतिकानि स्युरभौतिकानि वा। एकत्र विरुद्धधर्मदयाघटनात् । एकस्यापि स्वरूपस्यानिश्चितत्वात् । अयच्चागममूलत्वादागमिकः संशय इति ॥ ८॥ चतुर्थं संशयभेदं समर्थयति ।
उपलब्धेः किं सदुदकमुपलभ्यते उतासदिति ॥ विधिमुखेन ज्ञानप्रवृत्तिरुपलब्धिस्तस्था एवं संशयः । कापि कूपखननानन्तरं जलोपलब्धौ तदुपलब्धा संशेते तटाकादौ जलं सदुपलब्धं मरुमरीचिकाचक्रे चासत् । इदानीमत्र जलं यदुपलब्ध तत् किं सदसद्देति । ___ ननु सतएवोपलम्भादयं संशय एव न भवतीति चेन्न । मरुमरीचिकाचक्रादावसतोऽप्युपलम्भात् । भ्रान्तस्तदुपलम्भ इति चेन्न । उपलम्भक्षणे चान्ताभ्रान्तत्वव्यवस्थादौस्थयात् । उत्तरक्षण तहाध इति चेत्र। इदमन्यसंशयेऽपि सममिति ॥ ८ ॥ संशयस्य पञ्चमं भेदं प्रपञ्चयति ।
*अनुपलब्ध: किमविद्यमानः पिशाचो नोपलभ्यते । किं वा विद्यमान इति ॥
प्रतिषेधमुखेन प्रवृत्तं ज्ञानम् । ज्ञानानुत्यादश्चानुपलब्धिः ।
* The reading adopted by the commentictor bere differs somewhat from our text ( Vide p, 2. liuc 3. ]
Aho! Shrutgyanam