________________
२
न्यायतात्पर्य्यदीपिका।
इन्द्रियाणां भौतिकवाभौतिकवभेदेन हैविध्यम् । तत्र एके इति न्यायवादिन: संगिरन्ति । ___ इन्द्रियाणि भौतिकानि पृथिव्यादिपञ्चभूतेभ्यो घ्राणाद्यनुक्रमेण जातानीति। कथमेषां भौतिकत्वमिति चेत्। उच्यते इन्द्रियाणि भौतिकानि करणत्वाहावादिवदिति। यद्देन्द्रियाणि भौतिकानि भूतगुणप्रकाशकत्वात्प्रदीपवत् ।
किञ्च एकाहङ्कारप्रकृतित्वेत्वेकं वा सर्वार्थमिन्द्रियं सर्वाणि वा सर्वार्थानि स्युः । विषयनियमादप्येषां प्रततिनियमोऽनुमीयते । पञ्चत्वमपि तत्पञ्चत्वात् । इत्यमिन्द्रियाणां भौतिकत्वे साधिते अन्ये इति सांख्या: समाख्यान्ति। इन्द्रियाण्याहङ्गारिकाणि तत्सत्त्वञ्च रूपादिज्ञानकाऱ्यांन्यथानुपपत्तिगम्यम्। ततश्चेन्द्रियाण्याहङ्गारिकाणि । मदर्थी एवामी इत्यभिमानेन विषयपरिच्छेत्तवात् । व्यतिरेके दात्रादिवदिति । तदुक्तं तत्त्वकौमुद्याम् ।
प्रततेमहांस्ततोऽहङ्कारस्तस्मागणश्च षोड़शकः । तस्मादपि षोड़शकात् पञ्चभ्यः पञ्चभूतानि ॥ अभिमानोऽहङ्कारस्तस्माद्विविधः प्रवर्तते सर्गः ।
एकादशकश्च गणस्तन्मात्र: पञ्चकश्चैव ॥ अनयोरुपयोग्यर्थलेशः । मदर्था एवामी विषयाः मत्ती नान्योंऽधिक्कतोऽत्र कश्चिदहो अहमस्मीत्यभिमानरूपादहङ्काराविधा सर्गः स्थादक इन्द्रियाय एकादशको गण: पञ्चकस्तन्मात्रश्च । सत्त्वाधिकाहङ्कारोपादानत्वमिन्द्रियत्वम् । तद्दिधा बुद्धिकम्मभेदात् । तत्व प्राणादीनि पञ्च बुद्धीन्द्रियाणि वागादीनि पञ्च कर्मेन्द्रियाणि
Aho! Shrutgyanam