________________
प्रत्यक्षपरिच्छेदः ।
ow
ग
हयाविनाभूतादपि धर्मात् संशयः स्यात् । यथा किं क्रियावत्त्वाच्छरवन्मूतं मनः स्यादुतास्पर्शवत्त्वादाकाशवदमूर्त्तमिति ।
नन्वसाधारणधम्मस्य स्वधर्मिणां विशेषरूपत्वाद्विशेषदर्शनस्य च. प्रत्युत संशयनाशकत्वात् कथं संशयजनकत्वमिति चेत् । सर्वव्यावृत्तत्वायतिरेकमुखेनेति ब्रूमः । तदुक्तम् भट्टाचार्यैः ।
यस्त्वसाधारणो धर्मस्तदभावमुखेन तु । इयो: सत्त्वविरोधाच्च स नः संशयकारणमिति ॥
ननु शब्दस्याकाशविशेषगुगात्वं कुत इति चेत् । अनुमानादिति ब्रूमः। शब्दो गुण: सामान्यवत्वास्पर्शवत्त्वे सति बा केन्द्रिय प्रत्यक्षत्वाद्रूपादिवदिति । एतेन गुणत्वे सिद्धे गुणस्य च साश्रयत्वे पृथिव्यादिषु निषत्स्यमानत्वेन पारिशेष्यादाकाशमाश्रयः ।
तथाहि । शब्द: स्पर्शवतां गुणो न भवत्ययावयभावित्वादिच्छादिवत् । नात्म मनसोर्गण: शब्दोऽस्मदादिबाह्येन्द्रिय ग्राह्यत्वात् रूपादिवत् । नापि दिक्कालयोगुण: शब्दो विशेषगुणात्वाद्रूपादिवत् । अतः पृथिव्याद्यष्टट्यव्यतिरिक्ताशयाश्रित: शब्दस्त हत्तिबाधकप्रमाणवत्त्वे सति गुणत्वात् । यस्त्वेवं न भवति नासौ तथा यथा रूपादि। न च तथा न शब्दस्तस्मात्तातिरिक्ताश्रयाश्रित इति । यदाश्रितश्चायं तदाकाशमेव ।
अयञ्च संशयोऽनुमानानन्तरोत्पदिष्णुत्वादानमानिक इति ॥७॥ तृतीयं संशयभदमुदाहरति । विप्रतिपत्तेरेके भौतिकानौन्द्रियाण्याहुरन्येत्वभौतिकानोति ॥
Aho ! Shrutgyanam