________________
न्यायतात्पर्य्यदीपिका।
ग्राम्याः ग्रामसीमापरिज्ञानाथं सुधाधवलितमूईस्थापितस्थालीकम् स्थाणुमारोपयन्ति। तच्च पान्यो विभातप्रायायां क्षपायां दृष्ट्वा हयोस्तुल्याङ्घाकारविलोकनात् किमयं स्थाणुः स्यादुत पुरुषो वेति संशयीत। वक्तत्वकोटरवादीनां करचरणादौनां च विशेषणानामनीक्षणात् ।
न च वाच्यं समानधर्मस्य संशयजनकत्वे तन्मूलत्वात् प्रत्यभिज्ञोपमानयोरपि संशयत्वापत्तिरिति । तयोः समानधम्मस्यैकत्र निश्चितत्वादनयोस्त्वनिश्चितत्वात् । अयं च प्रत्यक्षविषयत्वात् प्रात्यक्षिक: संशय इति ॥ ६ ॥ द्वितीयं संशयभेदं निदर्शयति ।
अनेकधम्मादाकाशविशेषगुणत्वात् किमयं शब्दो नित्यः स्यादनित्यो वेति ॥ __ अत्र शब्दं प्रति वादिनां नित्यानित्यतया हे विप्रतिपत्ती। तत्र शाब्दे स्वेसितधर्मसाधनाय यदि कश्चिदाकाशविशेषगुणत्वं हेतुत्वेन प्रयुञ्जीत तदा पारिषद्याः संशयोरन् ।
ननु नित्येभ्यो व्यावृत्तस्वरूपोऽनित्यो दृष्टोऽनित्वेभ्यस्तु व्यावृत्त खरूपो नित्यो दृष्टः । ___ शब्दस्तु नित्यानित्यव्यावृत्तेनाकाशविशेषगुणत्वेन युक्तः तत् किं नित्येभ्यो व्यावृत्तत्वात् घटादिवदनित्यः स्यादुतानित्वेभ्यो व्यावृत्तवादात्मादिवन्नित्य इति । न च नित्यत्वानित्यत्वे एकत्र स्तो मिथो विरुद्धत्वात् ।
यद्दा अनेकश्चासौ धम्मश्चेति कर्मधारये एकत्र विरुद्धार्थ
Aho! Shrutgyanam