________________
प्रत्यक्षपरिच्छेदः ।
ननु संशयएव नास्ति। कुतः तत्याञ्चविध्यचिन्ता। यत: संशयज्ञाने किं धर्मी धर्मो वा प्रतिभाति । यदि धर्मी स किं तात्त्विकोऽतात्त्विको वा। यदि तात्त्विकः कथं तर्हि तडुः संशयत्वं तात्त्विकार्थग्रहणात् । अथातात्त्विकः तमुतात्त्विकार्थविषयत्वाद्धान्तिरेव न संशयः ।
अथ धम्मः किं स्थाणुल्वरूपः पुंस्त्वरूप उभयरूपो वा । पक्षत्रयेऽपि तात्त्विकत्वातात्त्विकत्वविकल्पाभ्यां प्राग्वदोषः । अधैक तात्त्विकमन्यदतात्त्विकं तर्हि ज्ञानं तदेकमेवाधान्तं भ्रान्तं च स्यात् । मैवं संशयः खलु सर्वेषामनवधारणप्रत्ययात्मकत्वेन स्वात्मसंवेद्यः। स धर्मिविषयो धर्मविषयो वा नोच्छेत्तुं शक्यः प्रमाणसिदत्वादिति।
ननु लक्षणभेदाम्लक्ष्यभेदस्तत्कथमत्र लक्षणस्यैक्यात् संशयस्य पाञ्चविध्यं मंगच्छते। मैवमुभयथा भेदो वस्तूनां लक्षणभेदात् कारणभेदाच। तदुक्तम् ।। ___ अयमेव हि भेदो भेदहेतुर्यहिरुडधम्माध्यास: कारणभेदश्चेति ॥ ५ ॥ क्रमेणोदाहरति । तद्यथा समानधर्मात् किमयं स्थाणुः स्यात्पुरुषो वेति ॥
दिग्विशेषावस्थिते दीर्घद्रव्ये अर्द्धप्रत्ययनिमित्तमूर्खत्वम् । तच्च परिमाणं वा सामान्यं वा। तस्मात् कारणभूतात् स्थाणुपुरुषयोः समानात् धम्मादयं पुरःस्थितो भावः किं स्थाणुरुत पुरुषो वा स्थादित्युभयविमर्शात्मकः संशयः प्रादुर्भवति। अयं भावः ।
Aho! Shrutgyanam