________________
न्यायतात्पर्य्यदीपिका।
___स च समानधर्मानेकधम्मविप्रतिपत्त्युपलब्धानुपलब्धिकारणभेदात् पञ्चधा भिद्यते ॥
तच्छन्दस्य प्राकरणिकापरामर्शित्वात् स पूर्वोत्ता: संशयः पञ्चधा भिद्यत इति संबन्धः । कस्मादित्याह। समानधर्मेत्यादि समानश्चासौ धम्मश्चेति कम्मधारये समानः परिमाणादिरूपी धम्मः प्रत्याश्रयं भिन्नो लभ्यते। समानस्य धम्म इति षष्ठीतत्पुरुषे तु प्रत्याश्रयमभिन्नोऽपि धम्मः सामान्यावयविसंयोगादिरूपो लभ्यते । अनेकस्मात् सजातीयविजातीयाह्यावर्त्तको धर्मोऽनेकस्यासंबन्धी वा अनेकस्मिन् प्रतिषिद्धो वा अनेकप्रत्ययहेतुर्वा भेदसाधकलेनेत्यतोऽनेकधम्म इति । सर्वत्र मध्यपदलोपिसमासात् सर्वथाप्यसाधारणो धम्म इत्यर्थः । व्याहत: प्रवादो विप्रतिपत्तिः । प्राप्तिरुपलब्धिरप्राप्तिरनुपलब्धिः। पश्चाइन्हस्ता एव यान्यसाधारणानि कारणानि अझुक्यादीनि तेषां भेदः पार्थक्यं तस्मात् ।
कोऽर्थः । समानधर्मादिरूपात् कारणपञ्चकात् संशयः पञ्चविधो भवति। ततो विशेषापेक्षसामग्रंत:पतितात् समानधर्मादसाधारणकारणाद्यदनवधारणं ज्ञानं स्फुरति तदनेकधम्माद्युपलक्षितसामग्रीजनितेभ्यः संशयेभ्योऽर्थान्तरं भवतीत्येवमन्येष्वपि संशयेषु वाच्यम् ।
यद्यपि सूत्रकारवार्तिककारमत समानानकधर्मोपपत्ते. विप्रतिपत्तेरुपलब्धानुपलब्धाव्यवस्थातोऽविशेषापेक्षो विमर्श; संशय इति वचनात् संशयस्त्रेधा। तथाप्यसो भाथकारमतेन संशयस्य पाञ्चविष्यमभिहितवान् ।
Aho! Shrutgyanam