________________
प्रत्यक्षपरिच्छेदः ।
५७
तथाहि । तदु ज्ञानं किं निश्चितं अनिश्चितं वा । आधे कथं ज्ञानान्तरेण बाधः । द्वितीये कथं सत्यता स्यादनिश्चित
त्वादिति ॥ ३ ॥
श्रज्ञातस्वरूपयोः संशय विपर्य्यययोरपोहितुमशक्यत्वादादौ
संशयं लक्षयति ।
तत्रानवधारणज्ञानं संशयः ॥
अत्र तत्र शब्दो निर्द्धारणार्थः । तत्र तयोः संशयविपर्यययोमध्ये । संशयस्तावन्निर्द्धार्य्यते । निर्धारणं च जातिगुणक्रियानिमित्तमित्यत्र संशयस्य जीवगुणत्वाद् गुणनिमित्तं निर्द्धारणं विज्ञेयम् । संशेरते मुह्यन्तीन्द्रियाण्यस्मित्रिति संशयः ।
न विद्यतेऽवधारणा यस्य तदनवधारणं तच्च तद् ज्ञानञ्चानवधारणज्ञानमनिचितज्ञानमित्यर्थः । संशय इत्युक्ते किमपेक्षा स्वात्तनिवृत्त्यै, ज्ञानमिति पदम् ।
तथापि घटोऽयमिति सत्यज्ञानेऽप्यतिव्याप्तिस्तत्परिहृत्यै अनवधारणमिति । अनवधारणमित्युक्ते विशेषणं विशेष्यापेक्षमिति ज्ञानपदम् । न चैतद्दाच्चम् | अनवधारणं च तत् ज्ञानं चेति । मिथो व्याघातान्न युक्तमिति । गोशब्दादिवद् ज्ञानशब्दस्य । जातिनिमित्तत्वात् । सा च ज्ञानत्वजातिर्निषयानिश्चयस्वभावासु व्यक्तिषु वर्त्तत इति न मियो व्याघातः । तस्मादनिश्चितज्ञानं संशयो भवतीति तात्पर्य्यम् ॥ ४ ॥
अथ लक्षितस्य संशयस्यावान्तरितभेदमाह ।
Aho ! Shrutgyanam