________________
न्यायतात्पर्य्यदीपिका।
ततस्तत्साधनानामपि प्रमाणत्वं व्यवच्छिन्नं भवति । फलस्य हि सम्यतासम्यक्त्वाभ्यां प्रमाणतदाभासयोः सम्यक्तासम्यो निर्णी येते। तेन सम्यगित्येतत्पदं फलविशेषणत्वेन व्याख्येयम् । सम्यक् चासावनुभवश्चेति ।
ननु किमिदं सम्यक्त्रं नाम येन तदपोहः । स्वस्वरूपावस्था. यित्वमिति चेत्र। संशयविपर्यययोरपि स्वस्वरूपनिष्ठतया प्रमाणखापत्तेः। अविसंवादकत्वमिति चेन्न । यथोतस्वस्खविषयज्ञापनेन तयोरप्यविसंवादकत्वाभ्युपगमात् । अन्यथा तत्खरूपमेव न स्यात् । ज्ञानान्तरेणाबाध्यमानविषयत्वमिति चेत् । तत् किं तस्मिन्नेव क्षणे क्षणान्तरे वा। नाद्यः पक्ष: अनुभवक्षणे संशयविपर्यययोरपि तथाभावात्। न द्वितीयः सत्यज्ञानस्थापि जानान्तरेण बाध्यमानत्वात् । तत्कथमेतादृशेन सम्यक् न तदपोहः स्यात् । अत्रोचते।
विशिष्टवस्तुस्वरूपपरिच्छेदकत्वं सम्य लम् ।
तेन च संशयस्य निर्विशिष्ट विषयतया विपर्ययस्य च मिथ्यारूपविषयतया व्यपोहः सिद्धः ।
भूषणकारस्तु तथाभूतार्थनिश्चयस्वभावत्वं सम्यक्त्वम्, तहिप रीतानुभवस्वभावत्वमसम्यक्वामिति सम्यवासम्यक्त्वाखरूपमाह ।
एतेनेतदपि प्रत्युक्तम् । यदुक्तं केनचित्, स्थाणुत्वपुंस्त्वयोः शुक्तिकाशकलकलधौतयोश्च स्वस्वक्षणे सत्यत्वात् क्वचिदर्तमानवाच्च संशयविपर्ययज्ञानयोः सत्यति ।
Aho! Shrutgyanam